SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [अध्याय १ 'मिश्रितं वज्रलेपेन समादाय च पाणिना । लिम्पेच मृदुयोगेन स्वच्छमच्छं शनैः शनैः ॥ १४०॥ इति चित्रभित्तिः । पश्चाच्चित्र विचित्रं च तस्यां भित्तौ लिखेबुधः । नानाभावरसैर्युक्तं सुवेषं वर्णकोचितम् ।। १४१ ॥ कनिष्ठिकापरीणाहां भागद्वयसमायताम् । घनवेणुसमुद्भूतां तूंलिकां परिकल्पयेत् ॥ १४२ ॥ तदने ताम्रजं शङ्ख यवमात्रं विनिक्षिपेत् । तावन्मात्रं बहिः कुर्यात्तिन्दूनामरिता बुधैः ॥ १४३ ॥ . कज्जलं भक्तसिक्थन मृदित्वा कॅन्दिकाकृतिम् । वति कृत्वा तया लेख्यं वर्तिका नाम सा भवेत् ॥ १४४ ॥ वत्सकर्णसमुद्भूतरोमाण्यादाय यत्नतः । तूलिकाग्रे न्यसेत्तानि लाक्षाबन्धनयोगतः ॥ १४५ ॥ लेखनी नाम सा प्रोक्ता सा चैवं त्रिविधा भवेत् । स्थूला मध्या तथा सूक्ष्मा तया चित्रं विरच्यते ॥ १४६ ॥ स्थूलया लेपनं कार्यं तिर्यगाहितया तया । अङ्ग(क)नं मध्ययों कुर्यादपश्विनिविष्टया ॥ १४७ ॥ सूक्ष्मया च ताँ रेखा सूक्ष्मां कुर्वीत कोविदः। - अग्रेण चित्रको धीमान् चित्रविद्याविशारदः ॥ १४८ ॥ इति लेखनीलेखनम् प्राणि वा यदि वाप्राणि तत्प्रमाणमभीप्सितम् । चिन्तयेत्तत्प्रमाणं तद्धयानं भित्तौ निवेशयेत् ॥ १४९ ।। भित्तौ निवेशितस्यास्य घृष्यमाणस्य वेतसा । तन्मानेन लिखेल्लेखां सर्वाङ्गेषु विचक्षणः ॥ १५० ॥ १F omits this and the following three lines २ A म्पयेन्म । ३ B D इति वज्रलेपलक्षणम् । ४ F न । ५ Aङ । ६ D मी । ७ D कर्कादि । ८ A वृतिं । ९ D ख। १० A आदानं । ११ Aमं । १२ F दरोणपा। १३ A याश्वं । १४ A या । १५ A कादी।१६Dणी । १७D णी।१८ A चे। Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy