SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३ ] मानसोल्लासः । दक्षिणोत्तरतोऽलिन्दं सुपक्षं परिचक्षते । उत्तरालिन्दहीनं यत्सुमुखं परिकीर्तितम् ॥ ६३ ॥ पश्चिमालिन्दतो हीनं धनदं गेहमुच्यते । दक्षिणालिन्दहीनं यदाक्रान्तं तदुदाहृतम् || ६४ ॥ पूर्वालिन्दविहीनं यद्विपुलं परिकीर्त्यते । सर्वतोऽलिन्दसंक्तं विजयं गेहमुत्तमम् ।। ६५ ।। एवं षोडश गेहानि कथितानि परिस्फुटम् । इति पोडशगृहलक्षणम् ॥ यथा नाम फलं तेषु ज्ञेयं तत्र निवासिनाम् || ६६ || धन्यं तस्मात्प्रकर्तव्यं नृपाणां गेहमुत्तमम् । हीनस्तम्भमलिन्दं स्याच्छाला स्तम्भैः समावृता ॥ ६७ ॥ नृपाणां गृहकर्तणां क्रम एष निरूपितः । अन्यच्चतुष्पकारं तदेकशालं गृहं भवेत् ॥ ६८ ॥ प्रधानगेहं स्तम्भैश्च शाला स्तम्भैः समा भवेत् । तस्य लक्ष्म प्रवक्ष्यामि शुभाशुभफलोदयम् ।। ६९ । उत्तरा शस्यते शाला शाला पूर्वा प्रशस्यते । दक्षिणा पश्चिमा शाला द्वे शाले परिनिन्दिते ॥ ७० ॥ नृपाणां सुखवासार्थं न कर्तव्ये कदाचन । तिष्ठन् गेहेषु शस्तेषु श्रियमामोति पुष्कलाम् ॥ ७१ ॥ आरोग्यं विजयं कीर्तिं सन्तोषं परमाप्नुयात् । एवं षोडशगेहानां फलं लक्षणनामकम् ।। ७२ ।। सोमेश्वरनृपेणोक्तं वास्तुपद्धतिमार्गतः । इति षोडश गेहलक्षणम् । १ Miss न्दः २ B. D. नुप. Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy