SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २१८ मानसोल्लासः । नवनाड्यन्तरे लावो विजयेत परं यदि । विशेषेण जयस्तस्य तस्यैवावस्तरो चलः || २२ ॥ नवनाडीकृतां सङ्खयां पूरयेद्यदि लावकः । तस्यैव विजयो ज्ञेयो येनावस्तर उच्छ्रितः ।। २३ ॥ त( उ ) च्छ्रितावस्तरस्यैव लावो यदि पलायते । नवनाड्यन्तरे तस्मात्तदन्यो जयमाप्नुयात् ॥ २४ ॥ अवस्तरं च गृह्णाति कृतं च पर्णमनुते । साम्येपणो न लभ्येत समयाद्वा स लभ्यते ॥ २५ ॥ ततः प्रवर्तते (येद्) युद्धं लावकानां नरेश्वरः । युध्यमानास्ततो लाबाचञ्चत्रा चर्वन्ति मस्तकम् || २६ ॥ कृकाटिकां विधृत्वाऽथ चत्वारो (त्वरयो ) त्प्लुत्य पक्षकैः । प्रहरन्ति मुहुः पादैर्भ्रमन्ति च विमुक्तये ॥ २७ ॥ ग्रीपुच्छं समुत्पाद्य (ट्य) चञ्च्वा भिन्दन्ति कन्धराम् । सन्दशवत्तथा नासां दृष्ट्वा निघ्नन्ति पक्षकैः ॥ २८ ॥ रक्ताक्तशिरसः केचिद्भिन्नग्रीवास्तथापरे । पिच्छैर्वियोजिताः केचित्केचिलोहितत्रकाः ॥ २९ ॥ उत्खातनखराः केचित्केचित्पाटितवर्ष्मकाः । उत्प (त्स) नचञ्चवः केचित्केचिदुद्वान्तशोणिताः || १२३० ॥ पुरः प्रसर्पिणः केचित्केचित्स्युँरपसर्पिणः । आक्रान्तकन्धराः केचित् केचिदुन्नमिताननाः || ३१ ॥ खस्ताङ्गाः स्रस्तपक्षाच स्रस्तग्रीवा विलोचनाः । स्रस्तजङ्घोरुपादाश्च स्रस्तसर्वाङ्गसन्धयः || ३२ ॥ धैर्यमालम्ब्य तिष्ठन्ति व्यादायास्यं च (श्व) सन्ति च । तथाप्यमर्षा युध्यन्ते गात्रादभ्यधिकं मनः || ३३ ॥ [ अध्यायः ८ १A फ । २A द । ३ A दौ । ४ D वां । ५A६A लोहितैः । ७ A त्सु ८ A नमदा | Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy