SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ विंशतिः 8 ] मानसोल्लासः । पूर्णा (f) तदन्येन वक्रेण विनिवेशयेत् । तोयपूर्णे घंटे तस्य रन्ध्रानिष्कासयेज्जलम् ॥ ३८ ॥ ज्वा (ना)लायाः श्लक्ष्णभागस्तु मेयस्त्वङ्गुलमानतः । एकद्वित्रिक्रमेणैवं यावत्स्याद्वादशाङ्गुलम् ।। ३९ ।। ततोऽर्कवारे सम्प्राप्ते योधयेदग्रयोधिनम् । सोमवारे तु धौरेयं कुक्कुटं जलसङ्ख्यया ।। ११४० ॥ सलिलस्याढकं यावन्नाडी रन्ध्रेण संश्रयेत् । मुख्यं तु योधयेत्तावत्तदर्धेनाग्रयोधिनम् ॥ ४१ ॥ द्वितीये सोमवारे स्यादाढकद्वितयं ततः । योधयेदाढकन्त्वेकं द्वौ प्रस्थौ विनिवारयेत् ।। ४२ ।। पुनः प्रस्थद्वयं यावद्येोधयेत्कुक्कुटौ मिथः । तद्वत्कुक्कुटमानार्थं योधयेदग्रयोधिनम् ॥ ४३ ॥ ९ तृतीये सोमवारे स्यादाढकत्रितयं जलम् । दाढकं त्वेकं द्वौ प्रस्थौ विनिवारयेत् ॥ ४४ ॥ पुनरप्याढकं युद्धं प्रस्थमेकं निवारयेत् । अवशिष्टं पुनः प्रस्थं योधयेच्चरणायुधम् ।। ४५ ।। एवं द्वादशरात्रेषु नीरमानं प्रकल्पयेत् । ध्वजयष्टिं तु गृह्णीयुः सम्प्राप्तैविजया बलात् ॥ ४६ ॥ अनेनैव प्रकारेण पञ्च सोमस्य वासरान् । योधयेत्कुक्कटान राजा पुंरयोधिभिरन्वितान् ॥ ४७ ॥ षष्ठे वारे तु सम्प्राप्ते कुलार्य परिमण्डयेत् । वस्त्रैः काञ्चनपट्टैश्च पट्टिकामात्यकैरपि ॥ ४८ ॥ पराजितस्ततः पूर्व वर्णमाख्याय निक्षिपेत् । कुलाये कुक्कुटं प्रातरन्यैरप्राप्तदर्शनम् ॥ ४९ ॥ १ A न । २ Aर्ण । ३ A स्यां । ४ D मिथ । ५A स्तौ । ६A च्छाद । ८ A धं । ९ A जि । १० A यात् । ११ A से । १२ D पुनरर्चाभिरर्चितान् । Aho! Shrutgyanam २५१ ७ A ध्वजक ।
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy