SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २४६ मानसोल्लासः। [अध्यायः चञ्च्वा स्पृशन्निशानाथं जयमामोति कर्मठः । ब्रह्मणः कोष्ठके स्थित्वा चक्षुषी विनिमीलयन् ॥ ७८ ॥ उत्क्षिपन् वदनं स्थित्वा विजयी चरणायुधः । तत्रस्थः कुक्कुटो गाढं ग्रसते गगनाङ्गणम् ॥ ७९ ॥ उत्क्षिपन् दक्षिणं पक्षं समानं विजयी भवेत् । रेखाद्वितीयसम्पाते कोलके वहते यदि ॥ १०८० ॥ कीलकं वापि चांकामेद्धन्यावा यदि घोणकम् । मध्यमेन खुरेणाथ वामं कण्डूयते यदि ॥ ८१ ॥ धुनुते वामतः पुच्छं तस्य चक्षुर्विभिद्यते । घर्षतो यदि चञ्चग्रं नखस्योपरि संस्पृशेत् ॥ ८२ ॥ सन्धि वा जानुनस्तस्य लोचनं स्फुटति स्फुटम् । वामेन चरणेनाथ स्पृशत्यङ्गं यथा निजम् ।। ८३ ॥ तदङ्ग भिद्यते तस्य नासाँ चञ्चवैव भज्यते । चरणस्य बहिर्भागं चच्चग्रेण निहन्ति चेत् ॥ ८४ ॥ पुच्छं प्रसार्य धुनुते कुक्कुटः स पलायते । पिच्छानि सर्वगात्रेषु विकीर्णानि समानि चेत् ॥ ८५ ॥ देक्षिणं पादतलकं चञ्च्चा कोञ्चति चेत्स्वकम् । नखं वामपदाक्रान्तगाढं यदि विकर्षति ॥ ८६ ।। भिन्दनक्षस्य नयनं कुक्कुटः समराङ्गणे । दक्षिणेन पदेनाङ्ग संस्पृशन् परघातनः ॥ ८७ ।। दक्षिणे नैतचेष्टाभिरादिशेज्जयमात्मनः । ग्रीवामाकुञ्च्य रसनां दर्शयन् यदि जृम्भते ॥ ८८ ॥ उत्क्षिपेच मुहुः शीर्ष सङ्ख्या ( ङ्ये ) वा विषमे जयः। दक्षिणं पादमुक्षिप्य मुष्टिं बद्धावतिष्ठते ॥ ८९ ॥ १ A भ्र। २ A षा । ३ D येत् । ४ D धुव A F हव । ५ A चक्रोमेह । ६ A उच्चा। ७A सां । ८ A वा । ९ These two lines are omitted in D। १० A द । ११ A णोन्न । १२ A च । १३ A टिबद्धव । Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy