SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [ अध्यायः२ दोषा गुणा गुणा दोषा यत्र स्युमदेवं हि तत् ।। उक्तिप्रत्युक्तिमुत्कृष्टशूरयोऽधिबलं विदुः ।। ६१ ॥ श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं भवेत् । व्याहारो हास्यलोभाट्याच्छ(द्वाक्छ)लनात्तु छलं भवेत् ॥ ६२ ॥ संरम्भशस्त्रपतनविवाहपरिगुम्फितम् । बहुवाक्यापवादाभ्यां युतं गण्डं विदुर्बुधाः ॥ ६३ ॥ विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसो मतः ॥ ६४ ॥ ज्ञान(य)मानतया तत्र विभावो भावपोकृत् । अनुभावो विकारस्तु भावसंमूचनात्मकः ॥६५॥ अनुकूलमनोधर्माः सात्विकाः परिकीर्तिताः । विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः ॥६६॥ रोमाञ्चः प्रलयः स्वेदः स्तम्भः कम्पो विवर्णता । वैश्च(स्व)र्यमश्रु चेत्यष्टौ भावाः सत्वसमुद्भवाः ॥ ६७ ॥ निर्वेदावेगवैवर्ण्यचिन्ताम्यादम (मद) श्रमाः । स्वापो विबोधो निद्रा च दैन्यालस्यमपस्मृतिः ॥ ६८ ॥ शहूंग ग्लानिस्त्रपा मोहो गर्वश्चपलता मतिः । अवहित्थोग्रतात/स्त्रासोन्मादौ विषण्णता ॥ ६९ ॥ अश्रु हर्षः स्मृतिर्जाडयममर्षों मरणं धृतिः । त्रिंशदेते त्रिभिर्युक्ता भावाः स्युर्व्यभिचारिणः ॥ १७० ॥ हासः शोको रतिः क्रोधो जुगुप्साभयविस्मयाः । उत्साहश्चेति विज्ञेयाः स्थायिभावा रसाश्रयाः ॥ ७१ ॥ हास्यं करुणश्रृङ्गारौ रौद्रबीभत्ससंज्ञकौ । भयानकाद्भुतौ वीर इत्यष्टौ नाटके रसाः ॥ ७२ ॥ १A मंदवं । २ A म्भ। ३ A योष । ४ A भावि । ५ D वैवर्ण्य। ६ D या। ७ A स्कृ । ८D शोको । ९ A व्य । १. Fषेमि । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy