SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १४८ मानसोल्लासः। [अध्यायः २० बहवः श्यामलाः सूक्ष्मा मृदुदीर्घाः शिरोरुहाः। नववंशसमच्छाया ( यो ) वर्णः कान्तिमनोरमः ॥ ४३ ॥ गतिमत्तेभसदृशी शिरीषमृदुलं वपुः । पद्मसौरभसङ्काशो वपुःपरिमलः शुभः ॥ ४४ ॥ अम्भोजगर्भसंस्पर्धिगन्धं निवनोदकम् । कोकिलालापमधुरो ध्वनिः श्रुतिसुखावहः ॥ ४५ ॥ रम्यस्त्रीभावसंसर्गः शुचि चाल्पं च भोजनम् ।। अल्पभूषणसम्प्रीतिः श्वेतपुष्पाम्बरे रतिः॥ ४६॥ मानः सौतिशयो लज्जा भूषणं परमं मतम् ॥ गुरुदेवार्चनासक्तिः सम्भोगे त्यक्तलज्जता ॥ ४७ ॥ दाक्षिण्यं दानशीलत्वं बन्धुप्रीतिर्मितं वचः ॥ सत्यवाक्त्वं दृढा प्रीतिः शोभा भूषां विनाऽपि च ॥ ४८ ॥ एतैर्गुणैः समायुक्ता पद्मिनी कीर्तिता बुधैः । लघुपादतले रम्ये तनुंजके सुशोभने ॥ ४९ ॥ किञ्चिद्वक्रौ शुभावूरू पृथुलं जघनस्थलम् । उन्नतः सुकुमारश्च सरसो मदनालयः ॥ १७५० ।। त्रिवलीमध्यसङ्काशो मध्यभागो मनोहरः। पीनौ वृत्तौ सुरम्यौ च वर्धमानौ पयोधरौ ॥५१॥ वक्षःस्थलं विशालं स्यादानुपूर्व्या तनू भुजौ । सुकुमारं करतलमगुल्यः सरलाः शुभाः ॥ ५२ ॥ कम्बुनाभिनिभः कण्ठः किश्चिदभ्युन्नतोऽधरः । सुच्छाया दशना नासा नातिदीर्घा न वामना ॥ ५३ ।। तनू कपोलफलको कौँ शोभासमन्वितौ । दीर्घे तीक्ष्णे च नयने निम्बपत्रार्धसन्निभे ॥ ५४॥ १D । २ F तोलनं । ३ A सान्ति । ४ D वाक्य । ५ A नतु । D च। ७ F वर्त । ८ व। Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy