SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। अध्यायः १२ पुनर्वसधनिष्ठायां रेवत्यां श्रवणे मृगे । उत्तरात्रितये हस्ते चित्रायां मैत्रपुष्ययोः ॥ ७९ ॥ अश्विन्यां शोभने वारे तिथौ लग्ने च शोभने । वत्सरद्वितयादूज़ चूडा कार्या यथाकुलम् ॥ १२८० ॥ अश्विनीरेवतीमूलज्येष्ठासु श्रवणत्रये । हस्तत्रये च पुष्ये च तथैवादितिदैवते ॥ ८१ ॥ शस्ते वारे शभे लग्ने तिथौ च शुभशंसिनि । अन्नप्राशनधिष्ण्येषु ध्रुवनक्षत्रवर्जिते ॥ ८२ ॥ भौमे सौम्ये गुरौ शुक्रे कुर्यान्मञ्जिीनिबन्धनम् । वर्षे गर्भाष्टमे वापि गर्भकादशकेऽपि वा ॥ ८३ ।। व्रतबन्धं प्रकुर्वीत क्षत्रियस्य यथोचितम् । आर्द्रायां श्रवणे स्वात्यां चित्रायां हस्तमूलयोः ॥ ८४ ॥ पूर्वात्रये च रेवत्यामाश्लेषायां पुनर्वसौ । मृगशीर्षे धनिष्ठायामश्विन पुष्ययोरपि ॥ ८५ ॥ वारे बुधे गुरौ शुक्रे विद्यारम्भं च कारयेत् । वेदमध्यापयेत्पुत्र(त्रान्) शस्त्रविद्यां च शिक्षयेत् ।। ८६ ॥ गजाश्वरोहणे तज्ज(ज्ज्ञान् ) रथयाने विशारदम् (दान् )। शस्त्रशास्त्रकृताभ्यासान् गजारोहे सुशिक्षितान् ॥ ८७ ॥ अश्ववाहसुनिष्णातान्सद्विद्यैस्तान्परीक्षयेत् । एकैकं क्रमशः पुत्रं परीक्षेत विचक्षणः ॥ ८८ ॥ पाटवं च बलं प्रज्ञा कलाकौशलमेव च । श्रुतौ तर्के तथा धर्मे काव्ये व्याकरणेऽपि च ॥ ८९ ॥ धनुर्वेदे भूमिबले स्वरशास्त्रे कलास्वपि । दृढघाते दूरपाते लघुसन्धानमोक्षणे ॥ १२९०॥ १F omits these two linse । २ A सौ । ३ D मि । ४ A णा । ५ A त्रान् । ६ D शा। ७ A ज्ञान । ८D न। ९ A दान् ? । १० D प्रवीणान् सर्वकर्मसु । ११ A बाहु । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy