SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ INDIAN विंशतिः मानसोल्लासः। छटि(दि)कापट्टगर्भस्थं कार्पासेन विमिश्रितम् । लोहासनामिदं प्रोक्तमुपरिष्टात्सुकीलितम् ॥ ४३ ॥ शाकदारुविनिमाणं दन्तिदन्तसुचित्रितम् । नानावर्णशताकारं मृत्वैकफल(पृष्ठैकफल)संयुतम् ॥ ४४ ॥ चतुष्पादकृताधारं सार्धहस्तं सुविस्तृतम् । ईषत्समुन्नतं राज्ञां पृष्ठाधारासनं स्मृतम् ॥ ४५ ॥ रुचिरेण सुवर्णेन निर्मितं तत्र रञ्जितम् । अष्टाभिः स्फाटिकैः सिंहमूर्धभिः सुविधारितम् ॥ ४६ ॥ अधः काञ्चनविन्यस्तरत्नवोदित्रयान्वितम् । आस्थानमण्डनं राज्ञां सिंहासनमिदं परम् ॥ ४७॥ पूतासनं देवकार्ये सुखल्यां(य)मङ्गलासनम् । स्वैरमन्यानि पीठानि सैंहमास्थानमण्डपे ॥ ४८ ॥ एतानि पीठान्यध्यास्ते राजा विभवभूषितः । यदासनोपभोगोऽयमभिज्ञैः परिभाषितः ॥ ४९ ॥ संप(सम्प)त्यासनभोगश्च कथितं(तः) लक्षणान्वितम् (तः) । एवमासनभोगश्च कथितः सोमभूभुजा ॥ ११५० ॥ इत्यासनोपभोगः ॥९॥ चारुचामरभोगोऽयं कथ्यतेऽमरवल्लभः । आस्थानमण्डपे रम्ये "विशाले सुखशीतले ।। ५१ ।। विन्यस्तरत्नशोभाट्ये हेमस्तम्भविभूषिते । चित्रभित्तिमनोरम्ये नानावर्णवितानके ॥ ५२ ॥ सुधाकुटिमके दिव्ये सिंहपीठे भवेन्नृपः । शरच्छशाङ्कसङ्काशैर्यशःपुञ्जनिभैः सितैः ॥ ५३ ॥ मण्डितैमदण्डैश्च रत्नकान्तिविचित्रितैः । मयूरपिच्छसम्भूतैश्चमरीपुच्छसम्भवैः ॥ ५४ ॥ १ A लकम् । २ F Omits this line । ३ A D शेषा । ४ D या । ५ A तत् । ६ F Omits this line | D नानावर्णवितानके। ८D F वसे । Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy