SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३ ] मानसोल्लासः । स्कन्धमध्यपरीणाहश्चतुष्पञ्चाशदकुलः । ग्रीवासन्धिपरीणाहस्त्रितालच नवाङ्गुलः || ८५५ ॥ वक्ष्ये (क्षो ) देशस्य विस्तारो द्वादशाङ्गुलसम्मितः । अष्टादशाङ्गुलं दैर्ध्य वक्षोदेशस्य कल्पितम् ।। ८५६ ।। कक्षाकीकसयोर्मध्यं द्विचत्वारिंशदङ्गुलम् । बाहुदैर्घ्य भवेत्तत्र प्रोक्तं पञ्चदशाङ्गुलम् ।। ८५७ ।। बाहुमूलपरीणाहस्त्रिंशदङ्गुल सम्मितम् (तः) । बाहुमध्यपरीणाहो वितस्तिद्वयवेष्टनः || ८५८ ॥ बाहुमान्तपरीणाहो भवेदष्टादशाङ्गलः । जङ्घायाश्च परीणाहो द्वादशाङ्गुलसम्मितः ।। ८६९ ।। पलिहस्तस्य दैर्घ्य तु षडङ्गुलमुदीरितम् । पलि हस्तपरीणाहो भवेदष्टादशाङ्गुलः || ८६० || कुष्टिकाया भवेदैर्ध्य षडङ्गुलमुदीरितम् । कुष्टिकायाः परीणाहो द्वादशाङ्गुलसम्मितः || ८६१ ।। खुरदैर्घ्यं समुद्दिष्टं षडङ्गुलमितं बुधैः । भवेत्खुरपरीणाहो विंशत्यङ्गुलसम्मितः || ८६२ || पृष्ठप्रदेशे दैर्घ्यं च चतुस्तालमुदाहृतम् । कक्षादेशपरीणाहः सप्ततालो दशाङ्गुलः || ८६३ ॥ मध्यभागपरीणाहः शताङ्गुलमितो भवेत् । रन्ध्रस्थाने परीणाहः सप्ततालो दैशाङ्गुलः || ८६४ || रन्ध्रोपरन्ध्रयोर्मध्यं विंशत्यङ्गुलमायतम् । त्रिकस्थानस्य विस्तारो द्विगुणैः षोडशाङ्गुलैः || ८६५ ।। जघनस्य तु विस्तारः षट्चत्वारिंशदङ्गुलः । पुच्छमूलं भवेद्भागो नाहेन द्वादशाङ्गुलम् || ८६६ ।। १ A मन्तरम् । २ B टाङ्गुलः स च । ३ BD ली । ४ Aख । ५ A श्व । ६D णः । Aho! Shrutgyanam ७५
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy