SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः । यवद्वयप्रमाणेन श्वेतभागच ( अ ) तुर्यवम् । ब्रह्मसूत्रात्रे भागे बुध ( न ) वर्त्म चतुर्यवम् ।। ६५९ ॥ 'परे भागे प्रदृश्यःस्यात्कपोलच चतुर्यवः । अर्धमात्रात्कपोलात्तु नासामध्यं प्रकल्प्यते ।। ६६० ।। पक्षसूत्राद्विनिष्क्रान्तं नासाग्रं तु चतुर्थवम् । ओष्ट (ष्ठ) तत्र प्रकर्तव्यौ तिर्यगङ्गुलविस्तृतौ ॥ ६६१ ॥ घटित पक्षसूत्रेण प्रकर्तव्यौ विचक्षणैः । ब्रह्मसूत्रात्रे भागे चिबुकं द्वियवं भवेत् ।। ६६२ ॥ घटितं ब्रह्मसूत्रेण हनुचक्रं प्रकल्पयेत् । हनुचक्रात्तथा ग्रीवा भागेनार्धेन कल्प (ल्प्य ) ते ।। ६६३ ॥ tara विस्तारो भागद्वितयसम्मितः । ग्रीवायाश्च वहिर्दश्यः स्कन्धदेशस्तथाङ्गुलम् || ६६४ ॥ ब्रह्मसूत्रात्रे भागे बाहुमूलं त्रिमात्रकम् । पञ्चमात्रं पुरोभागे कक्षामूलं विधीयते ।। ६६५ ॥ द्विकक्षामूलयोर्मध्ये भवेदेकादशाङ्गुलम् | उक्तादन्यः पुरो बाहुः कक्षामूलानु (तु) भागतः ॥ ६६६ ॥ कूर्परस्यान्तरी रेखा श्रोणिदेशे निगद्यते । तस्याश्च मध्यरेखाया अन्तरं संव्यवस्थितम् || ६६७ ॥ चापाकारं प्रकर्तव्यं तत्सार्धाङ्गुलविस्तृति: ( ति ) । बाहोस्तस्य बहिर्लेखा बस्तिशीर्षेण घट्टिता ॥ ६६८ ॥ परपादस्फिजा गूढः प्रकोष्ठो नैव दृश्यते । पूर्वेण पक्षसूत्रेण पृष्ठपार्श्व सुघट्टितम् ॥ ६६९ ॥ तेनैव घटित रेखा स्फिजोरन्तरवर्तिनी । बस्तिशीर्षगतं सूत्रं गुदराजेर्द्विगोलकम् ।। ६७० ॥ [ अध्यायः १ 3 Fomits this line २ AB३ A ऊध्व । ४ A अ । ५ A क्षि । ६ A ल्पते । ७ A रो • F गो । D न घढ्यते । १० D ट्टि । ११ B जौं ! Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy