SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [अध्यायः१ नासामध्यं ब्रह्मसूत्राच्चतुर्यवमुदाहृतम् । नासाग्रं ब्रह्मसूत्राच्च दृश्यं स्यादङ्गुलं परे ॥ ४८९ ॥ तस्मात्सूत्रात्परे भागे दृश्य (श्यः) कक्षधरोऽङ्गुलम् । ब्रह्मसूत्रात्परे भागे कक्षामूलं तु मात्रया ॥ ४९० ॥ कक्षामूलाद्धाहुमूलं मात्रामात्रं प्रदृश्यते । अन्यः प्रलुप्यते बाहुर्जेठरेण तलावधिः ॥ ४९१ ॥ ब्रह्मसूत्रात्कुचावतों भवेदङ्गुलतो बहिः । अर्धचन्द्राकृतिदृश्यः स एवाङ्गुलसम्मितः ॥ ४९२ ॥ ब्रह्मसूत्रात्परे भागे नाभिरङ्गुलमात्रिका । ततो बहिः प्रदृश्येत जठरं चैकमङ्गुलम् ॥ ४९३ ॥ ब्रह्मसूत्रात्परः काञ्चीगुणदेशोऽङ्गुलयम् । ब्रह्मसूत्राद् बस्तिशिरः पाच स्याञ्चतुरङ्गुलम् ॥ ४९४ ॥ ब्रह्मसूत्रान्मुष्कमूलं दृश्यते तच्चतुर्यवम् । मुष्को न दृश्यते तत्र लिङ्गेन परिगृहितः ॥ ४९५ ॥ ब्रह्मसूत्रादूरुमूलं भवेद्भागेन सङ्गतम् । लिङ्गस्याग्रे भवेदूरुभागः स्यात्रियवाधिकः ।। ४९६ ॥ ब्रह्मसूत्रादूरुमध्यं भवेदध्यर्धगोलकम् । सक्थिदेशाहिदृश्य(श्यो)ह्यङ्गुष्ठश्चापि तर्जनी ॥ ४९७ ॥ ब्रह्मसूत्रात्परे देशे परपादस्त्रिभागतः । दृश्यते साचिंत(वत् तद्वदगुल्योपि तदर्षिक:(काः)॥ ४९८ ॥ पूर्वार्दै गुल्फशीर्षाच्च पराह्ने (दें) नखमध्यतः । भवेद्भूमिगतं सूत्रं परपादस्य लेखने ॥ ४९९ ॥ परामिब्रह्मसूत्राच्च पूर्वभागे प्रदृश्यते । सप्ताङ्गुलकृतायामः शेषं पूर्वेण लिप्यते ॥ ५००॥ १ D तु । २ A ज। ३ A धि। ४ A द्व। ५ DN A Bः। ६ A F दध्यर्धगोलकम् । HD ८ A शक्ति । ९ A F वि । १० D ल्या । ११ A हे । १२ F ख्य। ... Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy