SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४० मानसोल्लासः । छेदेनांश विपर्यासाद् गुणयेद् राशियुग्मके । भाजकेन भजे भाज्यं भिन्नभागोऽयमीदृशः ॥ ११३ ॥ इति गणितम् ॥ [विंशतिः २ ईदृशं गुणकारं च भागहारं च तवतः । त्रैराशिकविधानं च यो जानाति विनिश्चितम् ॥ १२४ ॥ अलुब्धः सावधानश्च रागद्वेषविवर्जितः । स राता गणकः कार्यः कोशे राष्ट्रे च धीमता ॥ १२५ ॥ इति कोशाध्यक्षगण कलक्षणम् ॥ उन्नतो रूपवान् दक्षः प्रियवाग् दर्पवर्जितः । ग्राही चिचस्य सर्वेषां प्रतीहारः प्रशस्यते ॥ १२६ ॥ इति प्रतीहारलक्षणम् ॥ प्रगल्भो मतिमान् दक्षः सर्वभाषाविशारदः । सन्धि विग्रहतत्त्वज्ञो लिपिज्ञोऽक्षरवाचकः ॥ १२७ ॥ सामन्तमण्डलेशानां मान्यकानां विशेषतः । आवाहने विसर्गे च स्थापने निपुणो भृशम् ॥ १२८ ॥ पाड्गुण्यविधितत्त्वज्ञो देश-काळ-विभागवित् । आप-व्ययौ च लोकं च देशोत्पत्ति च वेत्ति यः ॥ १२९ ॥ अर्यरक्षापरो भृत्यः कृत्याकृत्य विवेकवित् । सान्धिविग्रहिकः कार्यों राज्ञा कार्यविशारदः ॥ १३० ॥ इति सन्धिविग्रहिकलक्षणम् ॥ सर्वदेश लिपिज्ञाता लेखने कुशलः पटुः । अधीतो वाचको धीमान् योज्यो राज्ञा स लेखकः ॥ १३१ ॥ इति लेखकलक्षणम् ॥ Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy