SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ૨૦ मानसोल्लासः । पितृपक्ष समुद्भूता मातृपक्षसमुद्भवाः । आत्मसम्बन्धिनो ये च बान्धवास्ते प्रकीर्तिताः ॥ ३०२ ॥ बन्धूनां मधुरं वाच्यं यथायोग्यं सहासनम् । संविभागश्च कर्तव्यः सुवर्णाम्बर भूषणैः ॥ ३०२ ॥ [विशतिः १ तनाः किङ्करा दास्यो दासाः कर्मकरास्तथा । बुद्धिखनसहायाश्च भृत्यास्ते परिकीर्तिताः ॥ ३०३ ॥ एतेषां रक्षणं सम्यक् तथा भरणपोषणम् । दानं सम्माननं कार्ये लोकद्वय हितैषिणा ॥ ३०४ ॥ इति दीनानाथार्त बन्धु-भृत्यपोषणाध्यायः ॥ १९ ॥ व्याघ्र-सिंह- गजैथोरैः शत्रुभिचापि विद्रुतः । भयाच्छरणमायातः शरणागत उच्यते ॥ ३०५ ॥ रक्षेच्छरणमायातं प्राणैरपि धनैरपि । स यशो महदाप्नोति जनैः सर्वैः प्रपूज्यते ॥ ३०६ ॥ क्रतवो विधिसंयुक्ता भीतसध्वस्य रक्षणम् । तुळया तोलितं तत्र प्राणत्राणं विशिष्यते ॥ ३०७ ॥ इति शरणागतरक्षाध्यायः ॥ २० ॥ राज्यमाप्तेर्नृपकुलभुवामित्युपायोपदेशः सम्यक् सोमेश्वरनृपतिना गर्भसारस्वतेन । ash चन्द्रप्रतिमयशसा रञ्जनाय प्रजानां पुण्यौघानामपि च महतां वृद्धये वृ (बु) द्धये च ॥ ३०८ ॥ इति श्रीमहाराजाधिराजसत्याश्रयकुलतिलक - चालुक्या भरण- श्रीमद्मलोकमछश्री सोमेश्वरदेवविरचितेऽभिलषितार्थ चिन्तामणौ मानसोल्लासे राज्यप्राप्ते तूपायकथने प्रथमं प्रकरणम् । Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy