SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः । अजीर्यत्यौषधं यस्माज्ज्वरार्तस्य विनाऽग्रिना । तस्मान दद्याद् भैषज्यं लङ्घनं तु प्रयोजयेत् ॥ १४८ ॥ अध्याय १९ ] भक्ष्यभोज्यस्य चोष्यस्य लेह्य-पेयस्य वारणम् । लङ्घनं प्रोच्यते सद्भिः कायलाघवकारणम् ।। १४९ ॥ वयोदोषं बलं कालं प्रकृर्ति कारणं तथा । विचार्य लङ्घनं कार्ये यावच्छुद्धं भवेद् वपुः ॥ १५० ॥ एकरात्रं त्रिरात्रं च पञ्चरात्रमथापि वा । सप्तरात्रं नव निशा निशाचैकाधिका दश ।। १५१ ॥ लङ्घनस्य कृतः काको दोषरूपानुसारतः । दातव्यमौषधं पश्चात् ज्वरामयविनाशनम् ॥ १५२ ॥ एकभक्तं तथा पेया मण्डो वा कोष्णवारिणा । दोषकोपानुसारेण लङ्घनं विविधं स्मृतम् || १५३ ॥ लङ्घितस्य यदा स्वास्थ्यं क्षुत् तृष्णा पाटवं रुचिः । मनःप्रसत्तिरोजश्च पक्तिळघवलक्षणम् ।। १५४ ॥ लङ्घनैर्विज्वरं जातं लघुपथ्यैर्मिताशनैः । उपाचरेद् भिषक् सम्यग् यावत् स्याद् दिनसप्तकम् ॥ १५५ ॥ नेऽपि कृते सम्यग् दृष्टे लङ्घितलक्षणे । ज्वरो यदि न मुच्येत तं पेयाभिरुपाचरेत् ॥ १५६ ॥ वात-पित्त - बळासानां ज्ञात्वा लक्षणमुत्कटम् । तस्योपशमनैर्द्रव्यैः कृत्वा पेयां प्रदापयेत् ।। १५७ ।। शूलेऽधिज्ञेयस्तापे पित्तं च लक्षयेत् । जाये कफं विजानीन्मिश्रे मिश्रं तु लक्षयेत् ॥ १९८ ॥ १ A भैषज्यं योजयेत्ततः । १५ Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy