SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अध्याय १५ ] मानसोल्लासः। अन्येषामपि देवानां निन्दा द्वेषं च वर्जयेत् । देवं देवकुलं दृष्ट्वा नमस्कुर्याद(?) लक्षयेत् ॥ १०५ ॥ एवं य आस्तिकं भावमाश्रितः समतां गतः। सर्वदेवप्रसादेन लभते सम्पदं वराम् ॥ १०६ ॥ इत्यशेषदेवतामक्त्यध्यायः ॥ १२ ॥ गवां ग्रासं सदा दद्यादातर्धमलिप्सया। आत्मीय-परकीयाणां तेन विष्णुः प्रसीदति ॥ १०७ ।। दानेन प्रियवाक्येन सन्मानेन द्विजोत्तमान् । तोषयेत् सर्वभावेन तेनामोति परं पदम् ॥ १०८ ॥ इति गोविप्रतर्पणाध्यायः ॥ १३ ॥ तोयमित्रैस्तिलैः कुर्यात् तत्रान्ना पितृतर्पणम् । गव्यक्षीरसमुत्पनैः पायसैः सितया सह ॥ १०९ ॥ भक्ष्यपूतैस्तथा मांसैघृतेन मधुनाऽपि च । अन्यैश्च विविधैः सृष्टैः पक्वाः सुमनोहरैः ॥ ११०॥ भोजयेद् द्विजमुख्यांश्च पितॄनुदिश्य भक्तितः । श्रद्धापूतेन चित्तेन श्राद्धं कुर्यादतन्द्रितः ॥ १११ ॥ एवं यः कुरुते श्राद्धं तर्पयेत् पितृदेवताः । तस्य सन्तानवृद्धिः स्याद् राज्यमायुर्महद् भवेत् ॥ ११२ ॥ यद् यदिच्छति चित्तेन तत् तदामोति कामवान् । अकामतस्तु कुर्वाणो निर्वाणं परमाप्नुयात् ॥ १११ ॥ इति पितृतर्पणाध्यायः ॥ १४॥ अज्ञातकुलनामानमन्यदेशादुपागतम् । क्षुधात पामुकीर्णाविमतिथि तं विदुधाः ॥ ११४ ॥ Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy