SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अध्याय ४] मानसोल्लासः। तस्मात् परकृतो द्रोहो यश्चातीच सुदुःसहः । तस्मान्नर कदं घोरं परद्रोहं विवर्जयेत् ।। ४१ ॥ इति परद्रोहवर्जनाध्यायः ॥ २ ॥ पुष्पिता पतिता कन्या लिङ्गिता श्रेष्ठजातिजा । परस्त्री विधवा श्वश्रूः स्वसा च दुहिता तथा ॥ ४२ ॥ गुरु-ब्राह्मणपत्न्यश्च पुत्र-मित्र-नृपस्त्रियः । पत्न्यश्च भृत्य-बन्धूनामगम्याः परिकीर्तिताः ॥ ४३ ॥ अनायुष्यकरं नृणामगम्यागमनं स्मृतम् । परलोके च भयदं तस्मात् तत् परिवर्जयेत् ॥ ४४ ॥ इत्यगम्यावर्जनाध्यायः ॥ ३ ॥ लशुनं गृञ्जनं चैव पलाण्डुामकुक्कुटः । विदुराहश्च छत्राकमभक्ष्यं परिकीर्तितम् ॥ ४५ ॥ व्याघ्र-जम्बूक-मार्जार-वृक-वायस-वानराः । ऋक्ष-सिंह-गजोष्ट्राश्च न भक्ष्याः परिकीर्तिताः ॥ ४६ ॥ पारावत-शुक श्येन हंसोट्रक-बकास्तथा । कोकिलः सारिका-गृध्र-सारमेयाश्च निन्दिताः ॥ ४७ ॥ ग्रामजाः पशवः सर्वे वर्जयित्वा त्वजाविकम् । कृमि-कीट-पतङ्गाश्च न भक्ष्याः परिकीर्तिताः ॥ ४८ ॥ शरटो दर्दुरः सो नकुलो गृहगोधिका । मकरः शिशुमारश्च नैव भक्ष्याः प्रकीर्तिताः ॥ ४९ ॥ गौडी पैष्टी च माध्वी च न पेया त्रिविधा सुरा । मदनीयं च यत् सर्व तत् सर्व च विवर्जयेत् ॥ ५० ॥ Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy