SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अनुक्रमणिका ] मानसोल्लासः । अथ प्राप्तस्य राज्यस्य स्थैर्यकारणविंशतिः । सप्ताङ्गानि तथा तिस्रः शक्तयः षड् गुणा अपि ॥ १९ ॥ उपाया अपि चत्वार इति विशतिरीरिता । स्वाम्यमात्य-सुहृत्- कोश-राष्ट्र- दुर्ग- बलानि च ॥ २० ॥ राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । सन्धिश्व विग्रहो यानमासनं द्वैधमाश्रयः ॥ २१ ॥ षड् गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । भेदो दण्डः साम दानमित्युपायचतुष्टयम् ॥ २२ ॥ अथ राज्योपभोगस्य विंशतिः कथ्यते क्रमात् । ताम्बूलस्य विलेपस्य भोगश्चाम्बर- माल्ययोः ॥ २३॥ भूषणासनयोर्भोगश्चामरास्थानयोरपि । पुत्राणामुपभोगाच भोजनस्य जलस्य च ।। २४ ।। पादाभ्यङ्गस्य यानानां छत्राणां शयनस्य च । धूपस्य योषितां चेति भोगानां विंशतिः पृथक् ॥ २५ ॥ विंशतिः कथिता भोगा विनोदा नामतोऽधुना । दाक्ष्यं शस्त्रस्य शास्त्रस्य विनोदा गजवाजिनोः ॥ २६ ॥ - मल्ल विनोदस्तु विनोदस्ताम्रचूडजः । aranस्य तित्तिरस्य महिषस्य विनोदनम् || २७ ॥ पारावतविनोदश्च विनोदः सारमेयजः । श्येन - मीन-मृगाणां च विनोदो गीत वाद्ययोः ॥ २८ ॥ नृत्तस्य च कथायाश्च विनोदश्च चमत्कृतेः । प्रमोदाय विनोदानामिति विंशतिरीरिता ॥ २९ ॥ १ पानानां । २A भूषणं । Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy