SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अध्यायः २० ] मानसोल्लासः । स्वस्य ग्रहबलं प्राप्य परेषां ग्रहदूषणम् । कुर्वीत तुमुलं युद्धं शत्रुसंहारकारकम् ॥ ११११ ॥ 17 जीवस्वरगतान् वर्णान गणयित्वा विचक्षणः । यत्र नास्ति निजाधिक्यं तत्र कुर्वीत सङ्गरम् ॥ १११२ ॥ रेवत्यादिषु धिष्ण्येषु सङ्गता यत्र ये ग्रहाः । राशिस्वरे विचार्यास्ते शुभाद् युद्धमाचरेत् ।। १११३ ॥ एकः स्वरश्रेदुभयोः प्रीतिं प्रकुरुते पराम् । द्वितीयः कुरुते मानं तृतीयः कार्यपोषकः ।। १११४ ॥ उपेक्षकचतुर्थश्च पञ्चमो जयनाशनः । स्वरमैत्रीं विदित्वैवं नृपः कुर्वीत सङ्गरम् ॥ १११५ ॥ मात्रास्वरो यदोदेति तदा कुर्वीत शोभनम् । गर्भाधानादिकं कर्म निधिधान्यादिसङ्ग्रहम् ॥ १११६ ॥ वापनं सर्वसस्यानां पुरवेश्मप्रवेशनम् । रसायनप्रयोगं च व्याधीनां च चिकित्सितम् ॥ १११७ ॥ मात्रास्वरे कुमारे तु विवाहः प्रीतिकृद् भवेत् । भृत्यानां सङ्ग्रहः शस्तः स्वामिसंश्रयणं तथा ॥ १११८ ॥ उत्कोचन मरातीनां ग्रामगेहप्रवेशनम् । वैरिनिर्मूलनोद्युक्तो यात्रां कुर्वीत भूपतिः ॥ १११९ ॥ यूनि मात्रास्वरे जाते पट्टबन्धाभिषेचनम् । गजाद्यारोहणं शस्तं वरनारीसमागमः ।। ११२० ॥ १२९ द्यूतमाहवकर्माणि यात्रा लेखविसर्जनम् । कुर्वीत कदनं राजा रिपूणां प्राणखण्डनम् ॥ ११२१ ॥ १ D ऋक्षेषु २ D तु सततं Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy