SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १६ मानसोल्लासः। [विशतिः २ अन्तःपुरे पुरन्ध्रीणां रम्याणि भवनानि च । निकेतनानि पुत्राणाममात्यानां गृहाणि च ॥ १०७६ ॥ सचिवानां निवासाश्च मन्त्रिणां सदनानि च । अन्येषां च मनुष्याणां मन्दिराणि बहूनि च ।। १०७७ ॥ मन्दुरा गजशालाच विविधानापणानपि । भस्मसात् कुरुते यत् तु स दण्डः स्थानदाहकः ॥ २०७८ ॥ देशत्यागपरिभ्रष्टः कृतभोगपरिच्युतः । गिरिकन्दरकान्तारनिकुञ्जभवनाश्रयः ।। १०७९ ॥ वियुक्तो दारपुत्रैश्च बन्धुभिः सचिवैस्तथा । धुत्पिपासापरीतश्च चिन्ताशोकसमन्वितः ॥ १०८० ॥ यानासनविहीनश्च गजवाजिविवर्जितः । पत्रोरेवंविधो दण्डो देशनिर्वासकः स्मृतः ॥ १०८१ ॥ ज्ञात्वा स्वरवलं राजा बलं भूमेस्तथैव च । कुर्वीत सर्वकार्याणि सामं तु विशेषतः ॥ १०८२ ।। अतः स्वरबलं वक्ष्ये दशधा प्रविभाजितम् । मात्रा वर्णों ग्रहो जीवो राशिरेवं च पञ्चधा ॥ १०८३ ।। बाल कुमारस्तरुणो वृद्धश्चास्तगतः स्वरः । द्वितीयः पञ्चभेदोऽयमित्थं दशविधः स्मृतः ॥ १०८४ ॥ अकारः प्रथमस्तस्मिनिकारस्तदनन्तरम् । उकारश्चैवमेकार ओकारो मातृका पुरा ॥ १०८५ ॥ ककारादिहकारान्तान् वर्णान् डणवर्जितान् । पचत्रिंशत्सु कोष्ठेषु पञ्च पञ्च क्रमान्न्यसेत् ॥ १०८६ ॥ १ ABCE कृतो भो । २ B दाप्त । Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy