SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १२२ मानसोङ्गासः । न सोऽस्ति लोके दानेन बशगो यो न जायते । देवा अपि भवन्तीह वशगाः सर्वदेहिनाम् || १०२९ ॥ [ विंशतिः १ दानं श्रेयस्करं श्रेष्ठं दानं सर्वार्थसाधकम् । दानशीको नृपो लोके देववत् पूज्यते जनैः ॥ १०३० ॥ इति दानाध्यायः ।। १९ ॥ उपायत्रितयेनापि यो न शक्यो भवेद् रिपुः । तस्य दण्डं प्रयुञ्जीत बलवान् यदि भूपतिः ।। १०३१ ॥ सामादीनां प्रयोक्तारमशक्तं मन्वते द्विषः । तस्माद् दण्डं प्रयुञ्जीत दण्डो हि वशकृनृणाम् || १०३२ ॥ बलिन तथा कार्या दण्डा द्वादशभेदजाः । अशक्तेन त्रयः कार्या एवं पञ्चदश स्मृताः ।। १०३३ ॥ अन्ये च दण्डाः कर्तव्या भूभृता धर्मवर्तिना I वधः क्लेशोऽर्थहरणो जनानां वृत्तरक्षकः ।। १०३४ ॥ देशनाशश्च शत्रूणां जनाङ्गच्छेदकस्तथा । गोग्रहो धान्यहरणो बन्दिग्राहस्तथाऽपरः || १०३५ ।। देशहारो धनादानः सर्वस्वहरणोऽपरः । दुर्गभङ्गः स्थानदाहो देश निर्वासकस्तथा ॥ १०३६ ॥ युद्धावहो महादण्डः शत्रुसंहारकारकः । उपायानां तुरीयश्च कथितः सोमभूभुजा ।। १०३७ ॥ वनानि यत्र छेद्यन्ते भेद्यन्ते च जलाशयाः । ग्रामाच यत्र दह्यन्ते स दण्डो देशनाशकः || १०३८ ।। नासिका श्रवणद्वन्द्वं छिद्यते देशवासिनाम् । जनानां यत्र दण्डोऽसौ जनाङ्गच्छेदनो मतः ।। १०३९ ॥ १ D छिद्यन्ते भिद्यन्ते Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy