SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Ka मानसोल्लासः । विश्वासजननोपायैः शपथैर्देवपूर्वकैः । क्रियते यच्च नीतिज्ञैः साम तद् दैविकं विदुः ॥ ९८२ ॥ [ विशतिः २ यदासीद् बान्धवं पूर्व साम्प्रतं विस्मृतं त्वया । इति संस्मार्यते यत्र स्मारकं साम तत् स्मृतम् ॥ ९८३ ॥ ग्रामं पुरं तथा राष्ट्रं वाजिनं वारणं धनम् । दास्यामीति च यत् साम स्मृतं तदिह लोभजम् ॥ ९८४ ॥ भवत्कार्ये मदीयं स्वं शरीरं च मयार्पितम् । इति वागपिंते सानि कथितं तमिजार्पणम् ॥ ९८५ ॥ इति सामाध्यायः ॥ १७ ॥ सामोपायैर साध्या ये शत्रवो मदमोहिताः । भेदोपायेन ते साध्या नृपेण विजिगीषुणा ॥ ९८६ ॥ क्षीरं नीरं यथा हंसो विश्लेषयति संहतम् । तथा सुसंहतान् शत्रून् भेदाद् विश्लेषयेत् तु तान् ॥ ९८७ ॥ शत्रुस्थैरात्मपुरुषैर्गुदैरुभय वेतनैः । भीतापमानितान् क्रुद्धान् भेदयेश्च नृसङ्गतान् ॥ ९८८ ॥ माणापहो मानभङ्गो धनहानिश्व बन्धकः । दाराभिलाषोऽङ्गभङ्ग इति भेदोऽत्र परिधः ॥ ९८९ ॥ मन्त्रः सम्यग् मया ज्ञातो नृपस्त्वां हन्तुमुद्यतः । अद्य श्वो वाऽतितीक्ष्णैव किञ्चिन्नाद्यापि बुध्यसे ॥ ९९० ॥ पैशुन्येनाप्यनाख्याप्य हेतुभिः प्रत्ययात्मकैः । भीतिरुत्पद्यते यत्र स भेदः प्राणहा स्मृतः ॥ ९९१ ॥ त्वद्विषत्प्रेरितो राजा तव मानं हरिष्यति । एवं विद्वेष्य यो भेदो मानभङ्गः स वर्णितः ॥ ९९२ ॥ १ ABC वापि । २ DE हनि । Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy