SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १०० मानसोल्लासः । मैत्राश्वि- पुष्य - हस्ताश्च सर्वदिक्षु शुभावहाः । यात्रायां सुप्रशस्तास्ते सर्वद्वारिकसंज्ञिताः । ७८६ ॥ गच्छेत् माचीमुदीचीं च कृत्तिकादिषु सप्तसु । मघादिसप्तके गच्छेद् दक्षिणां पश्चिमां दिशम् || ७८७ ॥ [ विशतिः २ मैत्रादिसप्तके यायात् पश्चिमां दक्षिणां दिशम् । धनिष्ठादिषु धिष्ण्येषु व्रजेद् यक्षेन्द्रयोदिशोः ॥ ७८८ ॥ वैपरीत्याद् यदा गच्छेत् परिघो लङ्घितो भवेत् । लङ्घितः परिषो हन्ति सर्वकार्याणि यायिनाम् ॥ ७८९ ॥ वायव्यमानमाशां समाक्रम्य स तिष्ठति । परिघो दण्डवत् तस्माद् यात्रायां तं विवर्जयेत् ॥ ७९० ।। गमनं केचिदिच्छन्ति कृत्तिकादिषु सप्तसु । आग्नेयां दिशि प्राच्यां च न दोषः परिघोद्भवः ॥ ७९१ ॥ मादिषु तथाssari प्राचीं गच्छन् न दुष्यति । "मैत्रादिषु दिशं वायोर्धनदस्य दिशं व्रजेत् ।। ७९२ ॥ धनिष्ठादिषु धिष्ण्येषु वायव्यामथ वारुणीम् । ककुभं गच्छता नैव परिघो लङ्घितो भवेत् ॥ ७९३ ॥ ज्येष्ठा प्राचीदिशं हन्ति गच्छतां कामितं फलम् । पूर्वाभाद्रपदा याभ्यां प्रतीचीमपि रोहिणी ॥ ७९४ ॥ उत्तराफाल्गुनी तद्वदुत्तरां ककुभं सदा । यातॄणां च भवेत् क्लेशः सन्देहेन निवर्त्तनम् || ७९५ ॥ इति सर्वदिक्षाणि । शुक्रादित्यदिने गन्ता वर्जयेत् पश्चिमां दिशम् । बुधे भौमे च कौबेरीं ककुभं परिवर्जयेत् ॥ ७९६ ।। Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy