SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ९६ मानसोल्लासः । मदिरामदजातेन विद्याधनमदेन च । यौवमेन मदेनाथ विग्रहो यो भवेनृणाम् ॥ ७४० ॥ [ विंशतिः २ एतैर्मदैः समुत्पन्नो मतिभ्रंशकरो महान् । अविवेकाद् य उत्पन्नः स भवेच्च मदोत्थितः ।। ७४१ ।। एकमर्थं समुद्दिश्य यो भवेद् विग्रहो मिथः । स प्रोक्तः शास्त्रतत्वज्ञैरेकद्रव्या भिलाशुकः ।। ७४२ ॥ इति विग्रहाध्यायः ॥ १२ ॥ दैवोपहतकोशथ व्याधिना बाधितोऽपि वा । व्यसनासक्तचित्तो वा शत्रुणा पीडितोऽपि वा ॥ ७४३ ॥ बलकोशविहीनो वा यो वा मित्रैर्नियोजितः । तस्योपरि नृपो यायाज्जिगीषुर्जयसिद्धये ॥ ७४४ || शरत्काले वसन्ते वा रिपोर्नाशमुपस्थिते । निमित्तं शकुनं लब्ध्वा यात्रां कुर्वीत भूपतिः ॥ ७४५ ॥ सन्धानजा पाणिरोधा मित्रविग्रहणी तथा । द्वन्द्व निर्व्याजजा कुल्या सप्तमी चापि शीघ्रगा ॥ ७४६ ॥ पाणिग्राहेण सन्धाय पश्चात् कुर्वीत भूपतिः । सन्धानयात्रा सा ज्ञेया नृपाणां क्षेमकारिणी ॥ ७४७ ।। पाणिग्राहस्य रोधार्थी नियोज्यात्मबळं महत् । गच्छतां सा भवेद् यात्रा पाणिरोधा शुभावहा || ७४८ ॥ शत्रोः सार्धं स्वमित्रेण कारयित्वा सुविग्रहम् । गच्छतां सा भवेद् यात्रा मित्रविग्रहणी परा ॥ ७४९ ॥ यस्योपरि स्वयं यायादानयेत् तदरिं नयात् । सा यात्रा द्वन्द्वजा प्रोक्ता रिपुसंहारकारिणी || ७५० ॥ Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy