SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ९४ मानसोल्लासः । बहुलाभं सुसाध्यं च धर्म्य कीर्त्तिविवर्धनम् । कार्य विचार्य कर्तव्यं भूभुजा सुखमिच्छता ।। ७१८ ॥ [ विशतिः २ समावाय - व्ययौ यत्र व्ययो यत्राधिको भवेत् । असाध्यं च शतोपायैः कथञ्चित् तन्न मन्त्रयेत् ॥ ७१९ ॥ अधर्म्यमयशस्यं च पश्चात्तापकरं च यत् 1 दुर्लभं शबहुलं दुर्मन्त्रं तन मन्त्रयेत् ॥ ७२० ॥ कामात् क्रोधाद् भयादन्यल्लोभ्यमानो न मुह्यति । यथा शक्त्या युतः कार्य ( ये ) मन्त्रशक्तिस्तु सा स्मृता ॥ ७२१ ॥ इति मन्त्रशक्त्यध्यायः ॥ ९ ॥ भूमि द्रव्यं गजानश्वान रत्नानि विजयं तथा । ग्रहीतुमुद्यतोऽरीणां विक्रमोपचितो नृपः ॥ ७२२ ॥ प्रारब्धं यत् स्वयं कार्य दैवादु यदि न सिध्यति । न सीदति च तत् कर्तुमुत्साही च पुनः पुनः ॥ ७२३ || यस्य स्वादुद्यमे नित्यं चित्तमुत्साहसंयुतम् । उत्साहशक्तिः सा ज्ञेया नृपाणां भूतिमिच्छताम् || ७२४ ॥ इत्युत्साहशक्त्यध्यायः ॥ १० ॥ नाकान्तिसाध्यो यः कश्चिद् देशकालाद्यपेक्षया । तेन सार्द्धं प्रकुर्वीत सन्धि नीतिविचक्षणः ।। ७२५ ॥ जेता शशुं बलिष्ठं यस्तस्मादभ्यधिकेन वा । तत्रापि सन्धि कुर्वीत नयशास्त्रविशारदः ।। ७२६ ॥ बलीयसा पीड्यमानो योद्धुं तेन च न क्षमः । तत्रापि सन्धि कुर्वीत मत्वा नीतिमनुत्तमाम् ।। ७२७ ॥ सन्धितुर्विधः मोक्तो मैत्रः सम्बन्धजस्तथा । परस्परोपकाराख्य उपहारस्तथैव च ।। ७२८ ॥ Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy