SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ७४ मानसोल्लासः । ferreसमाभासा वैणवीपुष्यसन्निभा लवणी पुष्पसङ्काशा नीलेन्दीवरसप्रभा ॥ ५०१ ॥ [विंशतिः २ अतसीपुष्पसङ्काशा चाषपक्षसमद्युतिः । कृष्णाद्रिकर्णिका पुष्प समानद्युतिधारिणी ।। ५०२ ॥ मयूरकण्ठसच्छाया शम्भोः कण्ठनिभा तथा । विष्णुदेवसमाभासा भृङ्गपक्षसमप्रभा ॥ ५०३ ॥ दोषैस्त्यक्तो गुणैर्युक्त इन्द्रनीलो महामणिः । यस्य हस्ते भवेत् तस्य वित्तमायुर्बलं यशः ॥ ५०४ ॥ क्षीरमध्ये क्षिपेन्नीलं दुग्धं चेन्नीलतां व्रजेत् । इन्द्रनीलः स विज्ञेयो रविनन्दनवल्लभः || ५०५ ॥ इन्द्रनीले धृते सौरिः प्रसन्नः सततं भवेत् । आयुश्च महतीं लक्ष्मीमारोग्यं च प्रयच्छति ॥ ५०६ ॥ इतीइन्द्रनीलपरीक्षा ॥ तुरुष्कविषयेऽम्भोधेः समीपे विषमस्थले । भवेन्मरकतं रत्नं गुणो दोषोऽस्य कथ्यते ॥ ५०७ ॥ दोषाः सप्त भवन्त्यस्य गुणः पञ्चविधः स्मृतः । भवेदविधा च्छाया मणेर्मरकतस्य हि ॥ २०८ ॥ अस्निग्धं रूक्षमित्युक्तं व्याधिस्तस्मिन् धृते भवेत् । विस्फोटं स्यात् सपिटकं तत्र शस्त्रहतिर्धृते ॥ ५०९ ॥ सपाषाणे भवेद् बन्धुनाशो मरकते धृते । विच्छायं मलिनं प्राहुर्बाधिर्ये तेन जायते ॥ ५९० ॥ कर्करं शर्करायुक्तं पुत्रशोकमदं धृतम् । जठरं कान्तिहीनं स्याद् दंष्ट्रिवह्निभयावहम् ।। ५११ ॥ Aho ! Shrutgyanam)
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy