SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ७२ श्रीशिवराजविनिर्मितो नान्यथा भावजं फलम् ॥३॥ राजमार्तण्डे--लग्नस्य पृष्ठाग्रगयोरसाश्चोः सा कर्तरी स्यादृजुवक्रगत्योः । तावेव शीघ्रौ यदि वक्रचारौ न कर्तरी चेति वदन्ति गााः ।। ४ । व्यये मार्गगतिः क्रूरो वक्री क्रूरो धने यदि । तौ च लग्नाशतुल्यौ चेत्तदा घोराख्यकर्तरी ॥ ५ ॥ महाविघ्नप्रदा ज्ञेया विवा शुभकर्मणि। इति सत्यपि लग्नं चेच्छुभान्यं नैव दोपकृत् ॥ ६ ॥ क्रूरकर्तरिसंयुक्तं लग्नं चन्द्रं न च त्यजेत् । केन्द्रत्रिकोणसंस्थेषु गुरुभार्गववित्सु च ॥ ७ ॥ बादरायगः-न हि कर्तरिजो दोषः सौम्ययोर्यदि जायते । शुभग्रहयुतं लग्नं क्रूरयो ऽस्ति कर्तरी । ८ ॥ पापयोः कर्तरीकोंर्नीचराशिगृहस्थयोः । यदा चास्तगयोवाऽपि कर्तरी नैव दोषदा ॥ ९ ॥ वसिष्ठः- एकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयादिदोपाः । नश्यन्ति चन्द्रार्कवलोपपन्ने लग्ने यथाऽर्काभ्युदयेऽन्धकारः ॥१०॥ इति कतर्यपवादः । अथ षडष्टरिष्फचन्द्रदोषः । नारदः-पडष्टरिष्फगे चन्द्रे लग्नाद्दोषः स्वसंज्ञकः । तल्लग्नं वर्जयेद्यत्नाजीवशुक्रसमन्वितम् ॥ १॥ उच्चगे नीचगे वाऽपि मित्रगे शत्रुराशिगे । अपि सर्वगुणोपेतं दंपत्योमृत्युदं यतः ॥२॥ अथ षडष्टरिष्फचन्द्रापवादः। .. मुहूर्तदर्पणे-कवी गुरौ वा बलिनि स्थिते तनौ शुभेन दृष्टः शुभवर्गगः शशी। विवर्धमानः शुभकृच्च नो शुभं करोति तिष्ठन्नपि वाऽष्टरिष्फयोः ॥ १ ॥ अथ संग्रहदोषः।। नारदः-शशाङ्के ग्रहसंयुक्ते दोषः संग्रहसंज्ञकः । तस्मिन्संग्रहदोषे तु विवाह नैव कारयेत् ॥ १॥ मुहूर्तदर्पणे--थूपाद्भयं रिपुभयं व्यसनं प्रवासं वित्तक्षयं विदरणं च शुभक्रियासु । कर्तुः करोति शशभृत्क्रमशोऽर्कपूर्वैरेवं ग्रहैः सह विशन्नुडुमेकराशौ ॥ २ ॥ दारियं रविणा कुजेन मरणं सौम्येन न स्युः प्रजा दौर्भाग्यं गुरुणा सितेन सहिते चन्द्रे च सापत्नकम् । प्रव्रज्याऽर्कसुतेन सेन्दुजगुरौ वाञ्छन्ति केचिच्छुभं ब्याद्यैर्मृत्युरसद्ग्रहैः शशियुतैर्दीर्घप्रवासः शुभैः ॥३॥ नारदः-प्रव्रज्या सूर्यपुत्रेण राहुणा कलहः सदा । केतुना संयुते चन्द्रे नित्यं कष्टदरिद्रता ॥ ४॥ स्वक्षेत्रगः स्वोच्चगोः वा मित्रक्षेत्रगतो यदि । पापद्वययुतश्चन्द्रः करोति मरणं तयोः ॥ ५ ॥ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy