SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ३५८. श्रीशिवराजविनिर्मितो अथ रामनवमी । ब्रह्मवैवर्ते-नवमी चाष्टमीविद्धा त्याज्या रामपरायणैः । उपोपणं नवम्यां तु दशम्यामेव पारणम् ॥ १ ॥ श्रीरामजन्मनवमी संपूर्णफलदा सदा । खण्डा चेत्परविद्धवादितियुक्ता विशेषतः ॥ २ ॥ अष्टभ्या नवमी विद्धा कर्तव्या फलकाक्षिभिः । सदुर्गा वा सनन्दा वा कर्तव्या दशमी सदा ॥ ३ ॥ अथैकादशीनिर्णयः । तत्र नित्यैकादश्युपवासविषयाणि वचनानि । ऋष्यशृङ्गः-एकादशी न लभ्येत सकला द्वादशी भवेत् । उपोष्या दशमीविद्धा ऋषिरुद्दालकोऽब्रवीत् ॥ १॥ भविष्यपुराणे-एकादशी दशायुक्ता परतोऽपि न वर्तते । यतिभिर्गहिभिश्चैव सैवोपाप्या क्षये तिथिः ॥ २ ॥ ऋष्यशृङ्गःपारणाहे न लभ्येत द्वादशी सकलाऽपि चेत् । तदानी दशमीविद्धामुपोष्यकादशी तिथिम् ॥ ३ ॥ हारीत:-त्रयोदश्यां यदा न स्याद्वादशी घटिकाद्वयम् । दशम्येकादशीमिश्रा सैवोपोष्या सदा तिथिः ॥ ४॥ विष्णुरहस्थे---दशमीशेषसंयुक्ता उपोष्यैकादशी सदा । यदा स्यान्न त्रयोदश्यां मुहूत द्वादशी तिथिः॥५॥ भविष्यपुराणे-विद्धाऽप्येकादशी ग्राह्या परतो द्वादशी न चेत् । द्वादश द्वादशी हन्ति त्रयोदश्यां तु पारणम् ॥६॥ विद्धाऽप्यविद्धा विज्ञेया परतो द्वादशी न चेत् । अविद्धाऽपि तथा विद्धा पस्तो द्वादशी यदि ॥ ७ ॥ वराहपुरागे – संपूर्णकादशी यत्र प्रभाते पुनरेव सा । सर्वेरेवोत्तरा कार्या परतो द्वादशी यदि ॥ ८ ॥ ब्रह्मवैवर्ते-द्वादश्यामुपवासस्तु द्वादश्यामेव पारणम् । वजुली वैष्णवैः कार्या हत्यायुतविनाशनी ॥९॥ अथ काम्यैकादशीवचनानि। कालनिये-प्रातर्वेधः कृतयुगे त्रेतायामरुणोदये । द्वापरे तु उपःकाले कलौ सूर्योदये स्मृतः ॥ १ ॥ गरुडपुराणे-उदयालाग्यदा विष मुहूर्तद्वयसंयुता । संपूर्णैकादशी नाम तत्रैवोपवसेद्गृही ॥ २ ॥ पुनः प्रभातसमये घटिकैका यदा भवेत् । तत्रोपवासो विहितश्चतुर्थाश्रमवासिनाम् ॥ ३॥ कर्मपुराणे--संपूर्णैकादशी यत्र प्रभाते पुनरेव सा । उत्तरां तु यतिः कुर्यात्पूर्वामुपवसेद्गृहीं ।। ४ ।। विष्णुरहस्ये-दशमीशेषसंयुक्तामुपोष्यकादशी किल । संवत्सरकृतेनेह नरो धर्मेण मुच्यते ॥ ५॥ वराहः- यदि दैवात्तु संसिध्येदेकादश्यां तिथित्रयम् । तत्र Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy