SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३१४ श्री शिवराजविनिर्मितो- श्वरौ छिद्रे सचन्द्रौ मृत्युकारकौ । सपापे रिपुभे मृत्यौ चन्द्रे मृत्युस्तथा खले ॥ ४ ॥ वर्गोलमगते मूर्ती मतीशे चन्द्रसंयुते । वित्ते भौमेऽथवा राहो दिने ह्यसितो वधः ॥ ५ ॥ अथ मृत्युभङ्गः । उदिते लग्नपे वाऽपि च्छिद्रपेऽस्तमुपागते। मृत्यु योगेऽपि नो मृत्युर्वाच्यो मृत्युरतोऽन्यथा ।। १ ।। अथ गतप्राप्तिपृच्छा | सप्तमस्थे यदा पापे बद्धा ह्यानीयते गतः । सौम्येऽस्तगे च न प्राप्तिः शुक्रे प्राप्तिस्तथा चिरात् || १ || लग्नपः केन्द्रनाथेन योगकृद्गतलब्धये । अस्तं गतोऽस्तपो लग्ननाथदृष्टस्तथाऽऽप्ये ॥ २ ॥ अथ मृताप्तिपृच्छा | पापसंबन्धगे चन्द्रे लब्धिः सौम्ययुते न हि । स चेद्वक्री विनष्टो वा तदाऽसौ लभ्यते मृतः ॥ १ ॥ अथ हृतनष्टविस्मृतिस्थापितवस्तुप्राप्तिपृच्छा । वस्तु मे वदति नेति पृच्छति द्यूनलग्नपतियोगतोऽर्पयेत् । एतयोर्यदि परस्तु संचरेदन्यहस्तवशतस्तदेष्यति || १ || लग्नपेऽस्तयुजि प्रच्छकस्तदा द्यूनपे तनुगतेऽर्थवान्परः । क्रूरसौम्य खगयोगतस्तयोः साध्वसाधुपरिकल्पना तयोः ॥ २ ॥ अथ चोरो भवति न वेति पृच्छा । एष चोरो न वेति स्यात्यने लोकश्रुतोरिव । चन्द्रो मुथशिलः क्रूरैः सत्यं चोरोऽन्यथा न हि ।। १ ॥ अनेनैव कदा चौर्य कृतं नो वेति लग्नपः । इन्दुर्वा मुशरीफ: स्यात्कस्यचित्तेन तत्कृतम् ॥ २ ॥ अथ कोऽयं नर इति पृच्छा । कोऽयं नरश्चेदिति पृच्छते तदा मध्ये स्वरांशौ खचरः स तत्रजः । उच्चे महाविश्रुत एवमन्यवर्गेऽन्यथा हीननरः पुमांश्व ॥ १ ॥ अथास्य को देश इति पृच्छा । व्योम्न स्थितोऽर्कतो यस्यां दिशि तद्विषयोद्भवः । न चेत्तत्र ग्रहो मध्यपतेः प्राग्वदिशं वदेत् ॥ १ ॥ १ क. 'वमूत्परी : फी स्था । च वसुसरीफ: स्था । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy