________________
ज्योतिर्निबन्धः ।
२४५
कृतिं कुर्यात्सौवर्णी पलमानतः । अथवा शक्तितः कुर्याद्वितशाठ्यं विवर्ज - येत् ॥ ४ ॥ मूले यत्तु विधानं स्यात्तत्समं सर्पदैवते । कद्रुद्राय प्रचेतस इति मन्त्रो विशेषतः || ५ || नैवेद्यं ह्यामिषं चास्ति पूजादानकृतिः समा । अयुतं हवनं ह्यत्र तिलैः साज्यैः प्रधानतः । ब्रह्मवृक्षस्य समिधः शतमष्टोत्तरं शुभाः || ६ || शुभा इति द्वादशाङ्गुलयुताः साग्रा अवक्राः सत्वचोऽत्रणाः । अन्यत्सर्वं मूलविधानवत् ।।
इत्याश्लेषाशान्तिः ।
अथ वृद्धगायोंक्ता ज्येष्ठाशान्तिः ।
नारद: - ज्येष्ठान्त्यपादजो ज्येष्ठं हन्ति बालो न बालिका । न बालिका तु मूलर्क्षे मातरं पितरं तथा ॥ १ ॥ ज्येष्ठोत्पन्ना नरा नार्यो घ्नन्ति चन्द्रे बलोज्झिते । कुलवृद्धं पितुर्मातुः पक्षजं तु दिवा निशि || २ || ज्येष्ठाद्यपादजो वृद्धं बन्धुवर्ग द्वितीयजः । धनं तृतीयजो हन्ति तथाऽऽत्मानं चतुर्थजः ॥ ३ ॥ ज्येष्ठान्त्यपादजातस्य पितुः स्वस्य विनाशनम् । जायते नात्र संदेहो दशाहाभ्यन्तरे यतः || ४ || ज्येष्ठ कन्यका जाता हन्ति शीघ्रं तथाऽग्रजम् । तस्माच्छान्ति प्रवक्ष्यामि गण्डदोषप्रशान्तये ॥ ५ ॥ सुदिने शुभनक्षत्रे चन्द्रताराबलान्विते । सूतकान्तेऽथवा कुर्याज्ज्येष्ठाशान्ति विधानतः ॥ ६ ॥ कर्षमात्रसुवर्णेन कर्षार्धेनाथ पादतः । तद्विधानं प्रकुर्वीत वितशाठ्यं न कारयेत् ॥ ७ ॥ वज्राङ्कुशधरं देवमैरावतगजान्वितम् । कुर्याच्छचीपतिं रम्यं देवेन्द्रं सुरनायकम् ॥ ८ ॥ शालितण्डुलसंपूर्णकुम्भस्योपरि पूजयेत् । इन्द्रायेन्दो मरुत्वत इति मन्त्रेण वाग्यतः ॥ ९ ॥ गन्धपुष्पैर्धूपदीपैर्नानाभक्ष्यसमन्वितैः । पूजयेद्विधिना विप्रो लोकपालगणान्वि तम् ॥ १० ॥ रक्तवस्त्रद्वयोपेतं पूजयेत्सुरनायकम् । तत्र संस्थापयेत्कुम्भांश्चतुर्दिक्षु विशेषतः ॥ ११ ॥ तन्मध्ये स्थापयेत्कुम्भं शतच्छिद्रसमन्वितम् । पुण्योदकसमायुक्तान्ववयुग्मेण वेष्टितान् ॥ १२ ॥ कुम्भेषु विन्यसेद्धीमान्पञ्चगव्यं समन्त्रकम् । पञ्चामृतं पञ्चरत्नं मृत्तिकाः पञ्चसंख्यकाः ॥ १३ ॥ पञ्चवृक्षकषायांश्च पञ्च पल्लवकांस्तथा । सुवर्णकुशदूर्वाश्च शतौषधीर्विनिक्षिपेत् ॥ १४ ॥ पूजयेद्द्वारुणैर्मन्त्रैः कुम्भान्धीमान्प्रयत्नतः । त्वं नो अग्ने जपेदादौ स त्वं नोऽपि द्वितीयकम् ॥ १५ ॥ समुद्रज्येष्ठामन्त्रेणेमं मे गङ्गे चतुर्थकम् । पूजयेद्वस्रपुष्पाद्यैश्चतुरः कलशानपि ॥ १६ ॥ जपं कुर्यात्प्रयत्नेन मन्त्रैरेभिर्द्विजोत्तमः । आनोभद्राजपं चाऽऽदौ भद्रा अग्ने द्वितीयकम् ॥ १७ ॥ तृतीयं पौरुषं सूक्तं कद्रुद्राय
Aho ! Shrutgyanam