SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ११८ श्रीशिवराजविनिर्मितो वृश्चिके व्यसनं महत् । राजवाधा च धनुषि शुभयुक्ते न दुष्यति ॥ १६ ॥ विशेपस्तु जलैघोरैः पीड्यते मरणान्वितः । क्षौरी मर्त्यो घटे लग्ने शुभयुक्ते प्रश-स्यते ॥ १७ ॥ गर्गः - आत्मराश्युदये षष्ठे द्वादशे निधने तथा । शत्रुक्षेत्रे च मीने च क्षौरं नैव च कारयेत् || १८ || बृहस्पतिः - अष्टमस्था ग्रहाः सर्वे नेष्टाः शुक्रविवर्जिताः | शुक्रस्तु निधने क्षौरे सर्वसंपत्प्रदः शिशोः ॥ १९॥ अष्टमग्रहस्यापवादः । बृहस्पतिः – लग्नादष्टमराशीशः केन्द्रगः शुभवीक्षितः । यस्याप्यष्टमगस्योक्तं दोषमाशु व्यपोहति ॥ २० ॥ स्वांशगः स्वोच्चगो वाऽपि स्वक्षेत्रोपचयर्क्षगः । अष्टमस्थानदोषोऽयं विनश्यति न संशयः ॥ २१ ॥ बृहन्नारदःलग्नाष्टमेशयोमैत्र्ये लग्नेशे बलसंयुते । अस्तगे निधनेशे वा निधनेऽपि शुभो ग्रहः ॥ २२ ॥ बसिट:- जामित्रे भास्करे क्षौरे मृत्युः स्याद्भूमिजे तथा । शुक्रे सौख्यविनाशः स्यान्मन्दभाग्यं शनैश्वरे || २३ || त्रिकोणकण्टके वाऽपि सत्कfred विधौ । गुरुर्खाऽतिबलः प्रोक्तः क्षौरयोगः शुभावहः ॥ २४ ॥ लग्नेदुराशिगौ द्वौ द्वौ भावनाथयुतेक्षितौ । भवेत्कश्चित्प्रभ्रष्टः स्याच्चूडायोगोऽयमुत्तमः ॥ २५ ॥ मीने शुक्रे च लग्नस्थे भवे भानौ चतुष्टये । गुरौ यातेऽथवा योगः शुभदः क्षुरकर्मणि ॥ २६ ॥ यमे कर्किणि सिंहे च सहिते भृगुजे बुधे । मानौ भवे व्यये चापि योगः क्षौरे शुभावहः ॥ २७ ॥ भवव्ययोदये भानुबुधशुक्रा यदा. स्थिताः । चन्द्रे शुभांशके केन्द्रे चूडायोगः शुभावहः ॥ २८ ॥ अनिष्टस्थानगो यः स्याद्ग्रहो लग्नेशवीक्षितः । गुरुणा बलिना दृष्टो यदीष्टस्थानगो भवेत् ॥ २९॥ नारद: - अभ्यक्ते संध्ययोर्नान्ते निशि भोक्तुर्नचाऽऽहवे । नोत्कटे भूषिते नैव याने न नवमेऽह्नि च ॥ ३० ॥ क्षौरकर्म महीशानां पञ्चमे पञ्चमेऽहनि । कर्तव्यं क्षौरनक्षत्रेऽप्यथ वाऽस्योद येष्टदम् ॥ ३१ ॥ नृपविमाज्ञया यज्ञे मरणे बन्धमोक्षणे । उद्वाहेऽखिल वारर्क्षतिथिषु क्षौरमिष्टदम् ॥ ३२ ॥ इति चूडाकरणम् । -- अथ चौलनिषेधः । षष्ठेऽब्दे पोडशे वर्षे विवाहाब्दे तथैव च । अन्तर्वत्न्यां तु जायायां नेष्यते केशवापनम् ॥ १ ॥ चूडाकर्म न कर्तव्यं यस्य माताऽस्ति गुर्विणी । यदि मूढात्मा तदा गर्भस्य नाशनम् || २ || परिशिष्टे -- माता कुमारमादायेत्युक्तं कात्यायनादिभिः । सा चेद्यदि सगर्भा स्यात्तदा चौलं न कारयेत् ॥ ३ ॥ गर्ग:- उक्तकालातिक्रमे च जनित्री यस्य गर्भिणी । ऊर्ध्वं मासात्पञ्चमतचौलं Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy