SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीशिवराजविनिर्मितो पी | सुहृदो चेत्तदा कार्य मङ्गलं मुनयो विदुः ॥ ४ ॥ बृहस्पतिः - चतुर्थी द्वादशं लग्नं शस्तं यदि गुणान्वितम् । अष्टमं तु न कर्तव्यं यदि सर्वगुणान्वि - तम् ॥ ५ ॥ अयं निषेधो जन्मेशरन्त्रपौ वैरिणौ यदा । परस्परं ततो मित्रे तदा दुष्टफलं न हि || ६ || मुहूर्तदर्पणे - स्वकीयजन्माष्टमराशिपत्योर्मैत्र्यां न जन्माष्टमराशिदोपः । जन्मेश कर्मेश्वरमित्रभावः क्षिणोति वैनाशिकदोषमुग्रम् ॥ ७ ॥ अथ विषनाडीदोषः । तिथीपुनागाद्रिगिरीशवारिधिगजाद्रिदिक् पावकदिक् च भास्कराः । मुनीभसंख्याः प्रथमातिथेः क्रमात्परं विषाख्यं घटिकाचतुष्टयम् ॥ ८ ॥ विंशच्चतुर्द्वादशदिक् च शैला वाणाच तत्त्वानि यथाक्रमेण । सूर्यादिवारेषु भवत्यनन्तरं नाड्यो विषाख्यं घटिकाचतुष्टयम् ॥ ९ ॥ नारदः - खमार्गणा ५० वेदपक्षाः २४ खरामा ३० व्योमसागराः ४० । वार्धिचन्द्रा १४ रूपदस्राः २१ खरामा ३० व्योमवाहवः २० ॥ १० ॥ द्विरामाः ३२ खाग्नयः ३० शून्यदस्रा २० कुञ्जरभूमयः १८ । रूपपक्षा २१ व्योमदस्रा २० वेदचन्द्रा १४ चतुर्दश १४ ॥ ११ ॥ शून्यचन्द्रा १० वेदचन्द्राः १४ षडक्षा ५६ वेदवाहवः २४ | शून्यदस्राः २० शून्यचन्द्राः १० पूर्णचन्द्रा १० गजेन्दवः १८ ॥ १२ ॥ तर्कचन्द्रा १६ वेदपक्षाः १४ खरामा ३० श्रविभात्क्रमात् । आभ्यः पराः स्युर्घटिकाश्रुतस्रो विषसंज्ञिताः । विवाहादिषु कार्येषु विषनाडीस्तु वर्जयेत् ॥ १३ ॥ फलप्रदीपे - यात्राविवाहादिषु मङ्गलेषु सर्वेषु नूनं विपनाडिकाय । कुर्वन्ति कर्तुमरणं हि शीघ्रं कृतप्रमाणायुष एव धोत्रा || १४ || विपघटिकोक्त ध्रुवका नक्षत्रगतैष्य योगसंगुणिताः । खरसहृताः स्पष्टाः स्युस्ताभ्यो घटिकाचतुष्टयं च तथा || १५ || अन्यथा पञ्चपञ्चाशद्भोगपक्षे मूलस्य विपघटिकाभाव एव । अथ विषनाड्यपवादः । फलप्रदीपे-विषनाड्युत्थितं दोषं हन्ति सौम्यर्क्षगः शशी । मित्रदृष्टोऽथ वा स्वीयवर्गस्थो लग्नगोऽपि वा ॥ १ ॥ बृहस्पतिः - चन्द्रो विषघटीदोषं हन्ति केन्द्र - कोणगः । लग्नं विना शुभैर्दृष्टः केन्द्रे वा लयपस्तथा ॥ २ ॥ अथ दुर्मुहूर्तदोषः । नारद:- - भास्करादिषु वारेषु ये मुहूर्ताश्च निन्दिताः । अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमङ्ग || १ || एतत्सर्व मुहूर्तप्रकरणस्थं ज्ञेयम् । १ . धात्री । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy