SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ४ सर्गः ] बालभारतम् । तया विरहितो राजा निशयेव निशाकरः । म्लानिं संप्राप तापेन तेजसेव विवस्वतः ॥ २९ ॥ अपि स्त्रीभ्रूणहत्याभिर्न शोषं याति जाह्नवी । कर्मसाक्षी न किं भानुरेनां शोषयते न यत् ॥ २६ ॥ बिभर्तु शिरसा शंभुरेनां भस्मास्थिभूषणः । पा तव क्रमेणापि स्पृशतः पुरुषोत्तम ॥ २७ ॥ जलस्पर्शेन लोकानां पातकं याति दूरतः । अस्याः स्वयं कृतैः पापैरद्भुतैरभितो जितम् ॥ २८ ॥ ईदृक्पापकृतः स्थानं नरकेऽपि न विद्यते । एतत्तमृतं जन्तुं कालस्तद्ब्रह्मणेऽर्पयेत् ॥ २९ ॥ किमेषा न विशेषेण पातकस्तोमकारिणी । यमुनापि समुद्रोऽपि श्यामौ यदभिषङ्गतः ॥ ३० ॥ स दूषयन्नदीमेतामेतादृग्दुःखभागिति । सचिवैः शुचिवैदग्ध्यप्रतिभैरिति भाषितः ॥ ३१ ॥ मापतः पातके वन्द्यां जाह्नवीमिति दूषयन् । स्वेच्छारोधेन यातासौ प्राच्यं तद्वचनं स्मर ॥ ३२ ॥ प्रतिबुद्ध्येति शुद्धात्मा सचिवानां वचोभरैः । क्षमस्वेत्याशु संभाष्य गङ्गां धाम जगाम सः ॥ ३३ ॥ कालेन विरहनेष रथी भागीरथीतटे । ददर्श दर्शनीयाङ्गमेकमेकः कुमारकम् || ३४ || मूर्त दर्प ने सर्पन्तं धीरं वीरं नु वा रसम् । तृणाय त्रिजगद्वीर्यं मन्यमानं दृशा भृशम् ॥ २५ ॥ जितेन गौरवायोम्ना किलोपचरितं चिरात् । ताडङ्कचन्द्रचण्डांशुहारमौक्तिकतारकैः ॥ ३६ ॥ कर्णान्ताकृष्टकोदण्डकराङ्गुलिनखावलौ । प्रतिबिम्बमुखं गङ्गासमीपे किल षण्मुखम् || ३७ ॥ १. 'तु' ग. Aho ! Shrutgyanam ३१
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy