SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ४ सर्गः ] बालभारतम् । चतुर्थः सर्गः । पाराशरमकूपारमिव पुंरूपिणं स्तुमः । येनोद्गीर्णाः सुधासिक्तमुक्तावद्भारतोक्तयः ॥ १ ॥ इक्ष्वाकु कुलकोटीरः पुरा भूपो महाभिषः । पुण्यं निर्माय निर्माय निर्मायः स्वर्गितां गतः ॥ २ ॥ घुसद्भिः सममन्येद्युः प्राप्तः पद्मभुवः सभाम् । त्रिमार्गामागतां तत्र मरुतापहृताम्बराम् ॥ ३ ॥ साकाङ्कं वीक्षमाणो न्यङ्मुखेष्वनिमिषेष्वपि । ब्रह्मशापादवाप्यायमपायं च्यवनं दिवैः || ४ || अहं प्रतीपभूपस्य भूयासं तनुभूरिति । चिन्तयन्स च्युतः स्वर्गात्सुमदागर्भमाविशत् ||१|| (विशेषकम् ) सोऽयं महाप्रभावोऽभूत्प्रतीपपृथिवीपतेः । शशिवंशसरोहंसः शंतनुर्नाम नन्दनः ॥ ६ ॥ प्रतीपे शान्ततारुण्ये श्रितारण्ये तपःस्पृशि | तनुतां शंतनुः क्ष्मापः शत्रुसंतानमानयत् ॥ ७ ॥ विना नाशेन जीवन्तः पुरतो यस्य पत्रिणाम् । अच्छुटन्नोत्तमर्णानामधमर्णा इव द्विषः ॥ ८ ॥ यस्याद्भुतप्रभावेन पाणिस्पर्शेन यौवनम् । जीर्णास्तूर्णमयन्ति स्म मधुनेव महीरुहाः ॥ ९ ॥ अष्टौ वसिष्ठकान्तारं कान्तारङ्गपराः पुरा । रन्तुं मेरुभुवि स्मेरवसवो वसवो ययुः ॥ १० ॥ तत्रावलोक्य गां स्पष्टमष्टमस्य वसोः प्रिया । २९ स्माह माहात्म्यमेतस्यास्तथ्यं मे नाथ कथ्यताम् ॥ ११ ॥ गिरा मधुकरावोचदथ द्यौरेंष्टमो वसुः । वासिष्ठी नन्दिनी विश्वानन्दिनी गौरि गौरीयम् ॥ १२ ॥ १. 'अवापाय' क. २. 'दिवः' अस्मादनन्तरं ख- पुस्तके 'युग्मम्' इत्यधिकमस्ति . ३. 'सुमुदा' ग. ४. 'घुरष्टमो' ग. Aho.! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy