SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २६ काव्यमाला। अनृतं यदीयमहसामहःपतिप्रतिमत्वमेष तनुते जनो जडः । सति यत्र शत्रुधरणीभृतामहो परिवर्धते तिमिरहारि दुर्यशः ॥ १०० ॥ कृतवर्षणो विपुलकीर्तिवारिणाद्भुततेजसा जनितविधुदुद्गमः । परवाहिनीषु मुखपद्मखण्डनैर्यदसिर्नवाब्द इव हंसनाशकृत् ॥ १०१ ॥ दिवि तत्र दैवतपतेरपि त्रपां सहसा स्वरूपमहसा प्रतन्वति । नृपतिस्ततो विततविक्रमोदधिर्धरणी मैरुण्वदभिधोऽभ्यधारयत् ॥ १०२ ॥ गुरुकुम्भिकुम्भयुगलस्तनी बैलत्तरवारिवेणिरुरुवाजिलोचना । प्रमदाय कामकलिकेलिभिर्बभावमृतेति यस्य पृतनेव वल्लभा ॥ १०३ ॥ यदरातिभूरमणभूरिदुर्यशोविसरेण वारिधरौरहारिणा । अभितो भृते निखिलरोदसीतले विरराज कीटमणिवन्नभोमणिः ॥ १०४ ॥ पतता ध्रुवं त्रिजगतीनितम्बिनीनयनेन यन्महसि दुःसहावधौ । अमुना व्यमोचि यमुनापदेशतस्तपनेन कजलमलीमसं पयः ॥ १०५ ॥ निजमुन्नतैर्मतिकलङ्कशङ्कया पथिपाति रत्नमपि नाददे जनैः । अजनि ध्रुवं रजनिषु प्रभाभरैः प्रहतासतीगति तदेव यद्भुवि ।। १०६ ॥ तरलत्वनीलिमनृशंसतागुणैः कृतविग्रहो यदसिना सहोरगः। अभजत्पराजयपदेषु शृङ्खलाग्रहरूढभीरिव निगूढपादताम् ॥ १०७ ॥ प्रथमं व्यधत्त वशगां जगत्रयीमथ विस्तृताम्बरमयालयाश्रयाम् । प्रथितप्रयाणमिव यद्यशोऽग्रहीदपि दुर्ग्रहं सपदि योगिनां मनः ॥१०८ ॥ दिवि कान्तकान्तिभिरनङ्गताशुचं मदनस्य तत्र हरति त्रपावतः । क्षितिपः परीक्षिदिति विद्विषविपव्ययकेलिकेसरिकिशोरकोऽभवत् ॥१०९।। अतिरागिणी गुरुसमृद्धिवर्धितप्रबलप्रतापशिखिहेतिसाक्षिकम् । नृपमण्डलीमिव सुविग्रहोऽग्रहीत्सुयशां विलोलनयनां करेण यः ॥११०॥ यदसिन्नत रुधिरासवं रणे परिपीय भिन्नकरिकुम्भमण्डलात् । स्फुटदन्तपतिरिव लग्नमौक्तिकैः सविकासहास इव कीर्तिकान्तिभिः।।१११॥ प्रतिपक्षपक्षघनकक्षमण्डले नवरोषपावककणं परिक्षिपन् । भुवि यः प्रतापदहनं तथातनोच्छुशुभे स्फुलिङ्ग इव पावको यथा ॥११२॥ १. 'महसो महः' ग. २. 'अरुण्वत्' ग. ३. 'चलत् क. ४. 'वारि' क. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy