SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-२सर्गः] बालभारतम् । चन्द्रक्षीरसमुद्ररुद्रशिखरिव्यालेन्द्रमन्दाकिनी मन्दारद्रुमहारतारकमुखाः सर्वेऽप्यखर्वत्विषः । वीरश्रीनिलयस्य यस्य यशसि त्रैलोक्यकुक्षिभरौ नेक्ष्यन्ते यदवश्यमस्य तदमी निर्माणकर्माणवः ॥ ७९ ॥ श्यामश्रीके किमपि विपुले स्वर्गदण्डप्रणाली पालीलीलाभृति विधुसुधाकूपरुंडीरसिक्ते । स्फारा ताराततिरतितरामम्बरक्षेत्रदेशे दृश्या यस्य प्रतिगुणयशोवल्लिबीजावलीव ॥ ८० ॥ प्रेमातिरेकरसमग्नहृदोऽप्युपांशु___ लीलावतीललितवेणिविलोकनेन । आसन्रणोग्रयदसिस्मरणाद्विलीन __ कामाः परे कृपणमीलितकातराक्षाः ॥ ८१ ॥ फूत्कारैः फणिपुंगवं फणिगणो गङ्गां तरङ्गखनै धर्मी मन्द्ररवैरवैति तमपि स्वःकुम्भिनं जम्भजित् । अस्माभिर्बत बुध्यतां कथमयं स्वामीति तारा व्यधु श्चन्द्रे चिह्नमिवाञ्जनैस्त्रिभुवनभ्रान्तासु यत्कीर्तिषु ॥ ८२ ॥ लीलावापीसरसिजवने भद्रकुम्भीन्द्रकुम्भ__ क्रोडे कान्तावदनशशिनि द्वारवीरासिदण्डे । खेलं खेलं स्वयमिह मुहुर्यद्वितीर्णा स्थिरत्वं लोलापि श्रीरभजत गृहे मार्गणानां गणस्य ॥ ८३ ॥ वीरोत्तंसस्य यस्याभिनवशशिसितैकातपत्रं प्रताप क्ष्मापालं सुप्रतिष्ठं नयनशिखिमिषाद्भालपट्टे भवस्य । नागेन्द्रोऽद्यापि नीराजयति मणियुतैर्यद्गुणग्रामगीत प्रीतः कम्प्रैः शिरोभिः स्फुरति सुरतटिन्यम्बुकम्बुप्रणादे ॥ ८४ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वणि पूरुप्रमुखाष्टादशराजवर्णनो नाम द्वितीयः सर्गः । १. 'रुन्नीर' ख, 'रुत्कीर' क. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy