________________
४४४
काव्यमाला।
अश्वमेधपर्व। भवाकूपारपारद्रुः पाराशर्यमुनिर्ददे। नैति यद्भारतीगुच्छस्तुच्छभाग्यस्य भोग्यताम् ॥ १॥ स्रवन्तीसूनुशोकाब्धौ क्ष्मापतिः पतितस्ततः । कौरवोत्तंसकंसारिव्यासैराकृष्यत द्रुतम् ॥ २ ॥ तदा तदुक्तिभिः पापशाखिप्लोषिशिखित्विषे । अधत्त हयमेधाय मेधामयमिलाधवः ॥ ३ ॥ विग्रहग्रस्तनिःशेषलक्ष्मीरेष मैखोदये । दुःखं दधौ गुणाधाने धिया हीन इवाधिकम् ॥ ४ ॥ मखशेषो मरुत्तस्य राज्ञः कनकसंचयः । अङ्के हिमाचलस्यास्ति हेमाचलकुमारवत् ॥५॥ तमाप्नुहि महीनाथ समानुहि महामखम् । विधेहि विश्वमनृणं पिधेहि दुरितच्छटाः ॥ ६ ॥ इत्युक्त्वा नृपमामन्त्र्य वन्द्यमानो विमानिभिः । द्यां ययौ तडिदुल्लासः श्रीव्यासः शमिभिः समम् ॥ ७ ॥
(विशेषकम्) सभोद्यानविहारेऽथ तां गीतां पुनरैन्द्रिणा । पृष्टोऽनुगीतामाचष्ट कंसारिः सा पुनः व गीः ॥ ८ ॥ ततः कृतमखारम्भसमागमनसंविदा । गत्वा मुरारिणाकारि द्वारिका हर्षकारिका ॥ ९॥ हिमाद्रितो महादेवसेवावल्लिफलान्यथ ।
आनिनाय महीजानि तानि हैमानि यज्ञधीः ॥ १० ॥ वसत्येव हरिदेवः सत्यसूनोः सदा हृदि ।
तदाशु तदभिप्रायं मत्वेवायं यदागतः ॥ ११ ॥ १. 'भवकूपार' क-ख. २. 'पारंगः' क. ३. 'महोदये' क. ४. 'विधेहि' क. ५. 'इत्युक्त्या ' क.
Aho! Shrutgyanam