________________
१२शान्तिपर्व-१सर्गः] बालभारतम् ।
४३७ यद्यायुर्व्ययतो बन्धौ वर्धमाने मुदं वहेत् । तत्कि शोचति लोकेऽस्मिन्क्रमान्निःशेषितायुषि ॥ १६३ ॥ अभावादागता गच्छन्त्यभावे सर्वजन्तवः । यदि कोऽप्यग्रतो याति तन्मन्दैः शोच्यते स किम् ॥ १६४ ॥ कः केन शोच्यतां जन्तून्कालो बालानिवात्मनः । अभावद्वयहस्ताम्यामितश्चेतश्च चालयेत् ॥ १६५ ॥ सोऽर्थः सन्नप्यसन्युक्त्या भुक्तो नार्जित एव यः। दैवादसत्तां यातेऽस्मिन्तन्त सोचन्ति दुर्धियः ॥ १६६ ॥ योगे क्षेमे प्रणाशे च ये सदा दुःखदायिनः । तैरनित्यसुखदं धर्म क्रीणन्ति कोविदाः ॥ १६७ ॥ उपान्तदीप्तदावेषु विलासोपवनेष्विव । अवश्योद्यद्वियोगेषु संयोगेषु रमेत कः ॥ १६८ ॥ बन्धोदेहे यदि स्नेहस्तन्मृत्यौ तं दहन्ति किम् । चेत्तदात्मनि कः शोको नित्यादृश्यस्य तस्य तत् ॥ १६९ ॥ अभावायैव भावाः स्युः शोकायैव तदीशिताः । चतुर्वर्गव्ययायैव तद्रागस्तं सुधीस्त्यजेत् ॥ १७० ॥ करिष्यामीति कृत्यानि नो विलम्ब्यानि वेत्ति कः । उन्मेषं वा निमेषं वा कं मृत्युः स्थिरयिष्यति ॥ १७१ ॥ न वर्गमपवर्ग च जडा गृह्णन्ति तत्फले । दानाय वित्तं तपसे दौस्थं दत्ते मुंहुविधिः ॥ १७२ ॥ धनवान्यः सुखी शुद्धो निराधित्वेन निर्धनः । हीनोऽपि न लगेत्कृत्ये वराकोऽन्यः करोति किम् ॥ १७३ ॥ तापकृद्वर्धमानैव लब्धे लैब्धेन्धने धने ।
तृष्णाग्निकीला संतोषपीयूषेणैव शाम्यति ॥ १७४ ॥ १. 'शोचता' ख. २. प्रागभावप्रध्वंसाभावेत्यर्थः. ३. 'अभावभावाः शोकाः स्युः ख. ४. "विधिर्मुहुः ख. ५. 'सुस्थो' ख. ६. 'लब्धे धने' क. 'लब्धे धनेन्धने' इति भवेत.
Aho! Shrutgyanam