________________
४०८
काव्यमाला |
तदोचुर्मुनयो धर्मज्ञौ युवां द्रौणिपाण्डवौ । स्वं स्वमस्त्रममानुष्यक्षेप्यं संहरतं द्रुतम् ॥ ७७ ॥ कलिप्रियोऽपि कल्पान्तशङ्की व्यासानुगो मुनिः । तदा तयोः पपातान्तर्निषेद्धुं युद्धमस्त्रयोः ॥ ७८ ॥ तावन्तर्वीक्ष्य पार्थोऽस्त्रं संजहार महारथात् । मैतयोर्भूत्तपोलेशक्लेशोऽस्य स्तम्भनादिति ॥ ७९ ॥ विजित्यैव तपस्तेजस्तीव्रताभिर्महाव्रतौ । तदस्त्रं तु कृपीसूनोः स्तम्भयामासतुर्द्रुतम् ॥ ८० ॥ प्रति प्रतिपती स्माह साहसाब्धिस्ततोऽर्जुनः । सृष्टं मयास्त्रमस्त्रस्य ध्वंसाय न कृपीभुवः ॥ ८१ ॥ मयास्त्रेऽस्मिन्हतेऽस्त्रेण सैष नः संहरिष्यति । तदस्मासु च लोकेषु युद्धतं तद्विधीयताम् ॥ ८२ ॥ अथचतुः सुतं कृप्यास्तौ मुनी शस्तया गिरा । द्विजोत्तम किमारब्धं त्वया लोकद्वयाहितम् ॥ ८३ ॥ पार्थेऽप्यमानुषक्षेप्यं क्षिप्तं ब्रह्मशिरस्त्वया । तस्यैव प्रतिघाताय परमास्त्रं नरोऽसृजत् ॥ ८४ ॥ स्याच्चेद्ब्रह्मशिरोस्त्रस्य परमास्त्रेण च क्षयः । कथं छुटियति क्रूरकर्मा क्रुद्धादृकोदरात् ॥ ८१ ॥ अस्त्रं संहर संहर्षसंरम्भाभ्यां समन्ततः । पश्यास्मद्दर्शनादेतद्धृतमस्त्रं किरीटिना || ८६ ॥ पार्थेभ्यश्च शिरोरत्नं स्वजीवितमिवार्पय । तत्क्रूर कार्यकर्तापि जीवन्नेभिर्विमुच्यसे ॥ ८७ ॥ द्रोणाङ्गभूर्जगादाथ तौ मुनी विनयानतः । अयुक्त्याघाति भीमेन भूय इत्यस्त्रमीरितम् ॥ ८८ ॥ नाधुना साधु नाथौ मे विरोधविधुरं मनः । नित्यानामपि वैराणां युष्मदीक्षणमौषधम् ॥ ८९ ॥
Aho ! Shrutgyanam