SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३९८ काव्यमाला | तानथाह हरिः पापैः स्वैरेवायं हतः पुरा । भीमेनाद्य हतोऽस्त्रेण वाग्भिः किं हन्यतेऽधुना ॥ १३९ ॥ फिनिविष्ट भुवं दोर्भ्यामवष्टभ्योन्नताननः । भ्रू संकटललाटोsथ कुधाह त्वत्सुतो हरिम् ॥ १४० ॥ रे कंसदासदायाद स्वैरधर्मैर्वयं हताः । त्वद्दिष्टैर्धर्मयोद्धारो नाधर्मैः किं ता मृधे ॥ १४१ ॥ भीष्मो भूरिश्रवा द्रोणः कर्णोऽहमपि कैतवात् । निपात्येमहि युष्माभिः पापिभिः शोच्यविक्रमैः ॥ १४२ ॥ धर्मयुद्धतनूशेषीकृतारिः सर्वकृत्यकृत् । आजन्मसुखितः संख्ये कः परोऽहमिवापतत् ॥ १४३॥ इत्युक्तवति वीरेऽस्मिन्मुक्ताः पुष्पस्रजः सुरैः । स्वं शोचन्तस्ततः पार्थाद्विनिवासान्समासदन् ॥ ९४४ ॥ अथोत्तीर्णे सतूणास्त्रपार्थेऽन्तर्हितवानरः । साश्वः सरश्मिः सर्वाङ्गं दग्धः कृष्णोज्झितो रथः ॥ १४५ ॥ द्रोणकर्णालीढोऽग्रेऽधुना मदवधीरितः । दग्धो रथोऽयमित्यूचे पार्थपृष्टोऽच्युतस्तदा ॥ १४६ ॥ अथामृत्युर्जयो भूतिः सर्वे नस्त्वत्प्रसादतः । इति ब्रुवन्हरिं तत्र निवासानगृहीनृपः ॥ १४७ ॥ याम औघवतीमत्र श्रेयसेऽद्य सरखतीम् । इत्युक्त्वा शिबिरात्कृष्णोऽकृषत्सात्यकिपाण्डवान् ॥ १४८ ॥ अत्रान्तरे महार्तिर्मामूचे भूप भवत्सुतः । कृतं मे मायया पश्य पाण्डवैर्मानखण्डनम् ॥ १४९ ॥ शक्त्या संवलितश्चार्व्या चार्वाको यदि जीवति । स परिव्राट् सुहृद्वैरपारं मम गमिष्यति ॥ ११० ॥ तौ मातापितरौ वृद्धौ स्वसा मुग्धा च दुःशला । धन्योऽहं दिवि यास्यामि भविष्यन्ति कथंचन ॥ १५१ ॥ १. 'मृता' क. २. 'इहा' ख-ग. Aho ! Shrutgyanam.
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy