SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। धिग्भोगस्पृहयालुत्वं यत्कृते दुष्कृताशयः । शिष्यो वृद्धं गुरुं व्याजत्याजितास्त्रमपातयत् ॥ १५१ ॥ इति प्रलापिनि क्रुद्धे शतक्रतुसुते ततः । जगाद नादयन्नुर्वी कोपनः पवनात्मजः ॥ १५२ ॥ क्षत्रियो मुनिवजल्पन्नैषि फाल्गुन वल्गुताम् । क्रूरारातिषु कः पार्थ प्रायो न्यायोचितं चरेत् ॥ १५३ ॥ किं नाम ध्वनिमुद्दामं कुरुते गुरुनन्दनः । मयि त्वयि च कृष्णे च संपरायपरायणे ॥ १६४ ॥ इत्युक्ति भीमसेनस्य गमयन्पूर्वरङ्गताम् । शतयज्ञसुतं यज्ञसुतः कोपोन्मदोऽवदत् ॥ १५५ ॥ अनस्त्रज्ञानपि ब्रह्मबन्धुर्ब्रह्मास्त्रतो हरन् । अधर्मसमरः स्वैरी पितृवैरी मया हतः ।। १५६ ॥ भीष्मः पितामहो वृद्धो भगदत्तः पितुः सखा । धेमैकयोधिनौ जल्प कया युक्त्या त्वया हतौ ॥ १६७ ॥ इति ब्रुवन्तं पार्थेन धिगित्युक्त्वा कटाक्षितम् । क्रोधाग्निसंभ्रमभ्राम्यच्चक्षुस्तं सात्यकोऽभ्यधात् ॥ १५८ ॥ धिगस्मान्कश्मलाचारानारादाराध्य घातिनम् । वस्था भवन्तं हन्तव्यमपि ये मृगयामहे ॥ १५९ ॥ अथैनं पार्षतः प्रोचे केन प्रायगतो हतः । यज्ञैकशीलो यूपाङ्कः पार्थकृत्तभुजः कृती ॥ १६ ॥ रे नृशंस दुराचार पुनर्यदि वदस्यदः । तत्त्वां हन्मीति जल्पन्तौ मिथस्तौ हन्तुमुद्यतौ ।। १६१ ॥ कृष्णोक्त्या तौ च भीमेन वारितौ स्फारितायुधौ । जज्वाल दीप्तदिग्जालमस्त्रं च द्रौणिचालितम् ॥ १६२ ।। १. 'साक्षात्' ख. २. “मानि' ख. ३. 'इत्युक्तं' ख. ४. 'समरस्वैरी' क. ५. 'कर्मैक' ख. ६. 'कुशला' ग. ७. 'भवत' ख. ८. 'प्राह' ख. ९. 'क्षत' ख. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy