________________
३४६
काव्यमाला |
अथैत्य गुरुणा बद्धकवचः कौरवेश्वरः ।
रुरोध क्रोधनो युद्धकिरीटाभं किरीटिनम् ॥ ६५ ॥ छिन्धि मूलमनर्थानामित्युक्ते हरिणा नरः । क्षणं तेन रणं चक्रे चमत्कृतसुरासुरम् ॥ ६६ ॥ अमज्जन्नर्जुने बाणाः सद्यो नद्यो यथाम्बुधौ । नृपे तु पेतुरकृतार्था यथा कृपणेऽर्थिनः ॥ ६७ ॥ किमेतदिति गोविन्दे वदत्यूचे धनंजयः ।
ज्ञातं मयास्मिन्गुरुणा वज्रं वर्मणि मन्त्रितम् ॥ ६८॥ वेयस्य छेदमित्युक्त्वा यदस्त्रं फाल्गुनोऽमुचत् । लोमेनेव महत्त्वं तद्द्रौणिनास्त्रेण वारितम् ॥ ६९ ॥ द्विःक्षेप्यं न खलु रणेषु दिव्यमस्त्रं ध्यात्वेति क्षितिभुजि विक्षिपन्पृषत्क्तान् । छित्त्वान्तः प्रगुणगुणं धनुस्तद्वोजः श्रीकर्णद्वयवदपातयत्किरीटी ॥ ७० ॥ स्म च्छिन्ते मणिमिव तज्जयाभिकाङ्क्षी वामाक्षीमुकुटरुचे रथस्य सूतम् । तच्चेतः कलितचतुर्दिगन्तराज्यश्रीदूतानिव चतुरोऽभिदत्तुरङ्गान् ॥ ७१ ॥ चिच्छेद द्विरदरदप्रभानिभं च छत्रं प्राक्शिर इव तद्यशोऽङ्गजस्य । तत्तेजस्तरुकरहाटवज्ज्वलन्तं सौवर्ण कलशमपि ध्वजाच्चकर्त ॥ ७२ ॥
(विशेषकम् )
नाराचानकवचितेषु वज्रमन्त्रैस्तस्यैन्द्रिः कररुहसंधिषु न्यधाश्च । तत्रस्तः स नरपतिस्तनूजुषां दिक्पालानामपि विकिरन्महांसि रक्तैः ॥७३॥ वर्मोच्चयान्द्रौणिप्रभृतीनामपातयत् ।
तदा तेजोमयानीव शरीराणि शरैर्नरः ॥ ७४ ॥ ते बाणै रक्तसिक्ताङ्गाश्चक्रिरे शक्रसूनुना । स्वजयश्रीगृहस्तम्भा इव सिन्दूरचित्रिताः ॥ ७५ ॥ ततश्च पातुमारेभे बलाम्भोधि विरोधिनाम् । बाणाङ्गुलिजुषा चापप्रसृत्त्या कलशोद्भवः ॥ ७६ ॥ १. 'नाराचान्स कवचितेषु' ग.
Aho ! Shrutgyanam