SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ६ भीष्मपर्व -२ सर्गः ] बालभारतम् । छिन्दन्तो भीष्मशस्त्राणि भिन्दन्तो वैरिभूपतीन् । निन्दन्तोऽथ पविं देवैरस्तूयन्त नरेषवः ॥ २५६ ॥ भीष्मे शिखण्डिकाण्डौघगुप्ताः पार्थेषवोऽपतन् । वियोगिनि विधूयोतलीनाः स्मरशरा इव ॥ २१७ ॥ (युग्मम् ) द्रोणादीन्निघ्नतो गुप्ताः पेतुर्भीमेऽस्य सायकाः । पश्यन्त्याः पतिमेणाक्ष्याः कटाक्षा इव वल्लभे ॥ २५८ ॥ वज्राङ्कुरैरिव गिरिर्भेद्यमानोऽथ तच्छरैः । दुःशासनं संनिधिस्थं भीष्मः सस्मितमभ्यधात् ॥ २९९ ॥ . भुजङ्गमा बिलानीव जालानीव रवेः कराः । ने मर्माणि विशन्त्येते विशिखौघाः शिखण्डिनः ॥ २६० ॥ पुत्रप्रेम्णा सुरेन्द्रेण वज्रधारा इवार्पिताः । पार्थस्यामी पृषत्कास्ते किरातरणसाक्षिणः || २६१ ॥ अथो कथं ते शिथिलः काण्डपात इति क्रुधा | शिक्षार्थमिव पौत्राय गाङ्गेयः शक्तिमक्षिपत् ॥ २६२ ॥ तां छित्त्वाथ त्रिधा भीष्मं रोम्णि रोम्णि व्यपूरयत् । मुहुर्मुहुर्मुकुन्देन तर्ज्यमानोऽर्जुनः शरैः ॥ २६३ ॥ यमाविष्टेष्विव स्वाङ्गमजानत्सु क्षताकुलम् । मिथस्तदा मदान्धेषु युद्धोद्गर्जिषु राजसु ॥ २६४ ॥ रणोद्रेकमृतानेकवीरद्वार मिवात्मनि । देवे दर्शयति छिद्रपराह्णे विकर्तने ॥ २६९ ॥ छिन्नः पार्थशरै भिन्नतनुः श्रीशन्तनोः सुतः । क्षितौ पपात घस्रान्ते लध्वंशुरिव घर्मरुक् ॥ २६६ ॥ (विशेषकम् ) पृष्ठनिःसृतकाण्डौघसुख पर्यङ्कशायिनि । वीरेऽस्मिन्वीरहृत्कर्ता हाहाकारो जगत्स्वभूत् ॥ २६७ ॥ ३२१ १. 'मन्मर्माणि' ख-ग. २. 'विशिखा न' ख ग ३. 'अहो' ख.ग. ४. 'मपराह्न - विकर्तने' ख-ग. ४१ Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy