SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८० काव्यमाला । स्फुटतराग्रकरः परितोऽम्भसि बुडितवानुदमजदथ द्विपः । धुतमुखः कृतचीत्कृतिरम्बुजभ्रमपतन्मधुपाकुलपुष्करः ॥ ३० ॥ उदयदान्तरशैत्यगुणौ परस्परभवत्परिरम्भविज़म्भणैः । वरसरित्करिणौ पतितः परां मुमुचतुः परितापपरम्पराम् ॥ ३१ ॥ मधुपगीतगुणानि जलस्य यजलरुहाणि जहार महागजः । तदिदमप्यहरन्मुहुरूमिभिर्मदममुष्य विसृत्वरसौरभम् ॥ ३२ ॥ . तिमिविलोलदृशः सरितो मदैर्मृगमदैरिव पत्रलताततिम् । विकटकुम्भयुगप्रतिबिम्बतस्तनतटीषु ततान मतङ्गजः ॥ ३३ ॥ उदितबुहुदवृन्दभृशस्विदं बहु विलस्य नदी नलिनाननाम् । पुनरुदित्वरदानवशैर्वृतः सहचरैरलिभिर्निरगादिभः ॥ ३४ ॥ गजगणे गतवत्यथ तत्क्षणादभिगतासु कुतोऽपि सखीष्विव । अकथयद्वरटासु नदी मदाविलजलालिरवैरिव संभ्रमात् ॥ ३५ ॥ तरुतलेषु निषण्णमथो पथो गमनखिन्नमशक्तमितो गतौ । जनमपास्य विनिश्वसदाननं द्विरदराजिरवध्यत सादिभिः ॥ ३६ ॥ कुसुमसंचयवृष्टमधुच्छटासुरभिपृष्ठनिविष्टषडविभिः । कुथवृतैरिव मुक्तकुथैरपि द्रुमतलेषु तदा करिभिर्वभे ॥ ३७ ॥ नै दलसंहतितो जलवर्षणं तलममुष्य भजेदिति मूलगैः । जलधरैरिव मुक्तमदाम्बुभि शमिभैः समसिञ्चि तरूच्चयः ॥ ३८ ॥ सुखनिमीलितहग्रसनाशिखामिलिततालुविघूर्णितविग्रहम् । पदमतन्यत शाखिषु योगिवत्करिभिराहृतपिण्डनिरादरैः ॥ ३९ ॥ क्षुधितमप्यलसं परिचारकाः करधृतैः कवलैधुतपङ्किलैः । विदधतः परितः परिताडनं चटु च डिम्भमिवेभमभोजयन् ॥ ४० ॥ गजघटागतिकुट्टिमितं खुरैः स्थपुटतामनयन्पुलिनं हयाः । अपि महद्भिरतीव समीकृतं विगमयन्तितरां तरला न किम् ॥ ४१ ॥ नखविलासजुषः कृतशिङ्घनश्वसितलोलरजःकणकम्पिनीम् । सरभसं परिवेल्लनकैतवाद्वसुमती हरयः परिरेभिरे ॥ ४२ ॥ १. 'निखिन्न' क. २. 'तदलं' ख-ग. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy