SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ उद्योगपर्व - १ सर्गः ] बालभारतम् । इत्युक्तिभासुरे भीष्मे सान्तर्हासे सभाजने । सद्यः कर्णे विवर्णे च वाचमूचे विचित्रभूः || ९७ ॥ हितमाहितचिन्तानां निखिलानामिलाभृताम् । भीष्मो यदाह वंशैकदाहनीरं हि तद्वचः ॥ ९८ ॥ जगदुद्धारसंहारसत्ये सत्यपि तेजसि । स्पृहयन्ति श्रिये कुल्यनिग्रहं विग्रहं न ये ॥ ९९ ॥ तेऽतिमन्थोल्लसत्कोपा न क्रियन्ते पृथाभुवः । उद्यद्गरा इव क्षीरसागरा लोकलुप्तये ॥ १०० ॥ तद्यातु संजयस्तत्र प्रसादयतु पाण्डवान् । प्रसादप्रकृतीनिन्दुकरानिव घनात्ययः ॥ १०१ ॥ इत्युक्त्या सभ्यचेतांसि रञ्जयन्संजयं नृपः । पार्थेषु संघये प्रेषीत्तं पुरोगपुरोहितम् ॥ १०२ ॥ उपप्लव्यपुरे गत्वा मित्रमन्त्रिवृतं नृपम् । नाम संजयो नामप्रथनेन पृथासुतम् ॥ १०३ ॥ पृष्टः कुलस्य कुशलं वाचिकं च स भूभुजा । गिरां गतिषु पीयूषं खञ्जयन्संजयो जगौ ॥ १०४ ॥ यद्भाति त्वादृशैर्धर्मोज्जागरं गुणसागरैः । भूप संभाव्यतां कस्मात्तस्मिन्न कुशलं कुले ॥ १०९ ॥ इदं तु मन्तुसंतानमन्दनन्दनदुःखितः । संदिदेश त्वयि श्रीमानग्रजः पाण्डुभूभुजः ॥ १०६ ॥ धर्ममर्मविदो वन्द्या भवभाजां भवादृशाः । न ये कृतान्यक्षोभेण लक्ष्मीलोभेन लङ्घिताः ॥ १०७ ॥ भवान्भवानुकारी न याति कस्य नमस्यताम् । अञ्जि वनभाजोऽपि यस्यैश्वर्यं न केनचित् ॥ १०८ ॥ धूलिस्थामस्थिरां भूमिमिच्छन्बन्धुवधोद्यतः । सुधांशुशुद्धया कीर्त्या को न मुच्येत नित्यया ॥ १०९॥ १. 'प्रथमेन' क- ख. Aho ! Shrutgyanam २५९
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy