________________
२१६
काव्यमाला |
मृत्युधीर्बन्धुदुःखेन कुललालनकाङ्क्षया । अथ भूपोऽभ्यधान्माद्रीपुत्रो जीवतु मत्प्रियः ॥ १३३॥ सोदर्यतोऽधिकप्रीतिं वैमात्रेयेऽथ पार्थिवम् । प्रीतः प्रत्यक्षतामेत्य धर्मो निर्मलगीर्जगौ ॥ १३४ ॥ धर्मोऽस्म्यहं स्यपुस्य तवास्येन्दुत्विषा मयि । हतौ पाण्डव माण्डव्यशापतापतमश्चयौ ॥ १३५ ॥ अरणी हरिणीभूय मया त्वां वीक्षितुं हृता । सोदरेषु तथार्तेषु पिबन्तोऽम्बु हतास्त्वमी ॥ १३६ ॥ अनृशंस्यं स सत्वं च दृष्ट्वा तुष्टोऽस्मि तेऽधुना । अवाप्नुहि जयं धर्म्य जीवन्तु तव बान्धवाः ॥ १३७ ॥ वर्षे वस विराटेषु मत्प्रसादादलक्षितः । इत्युदीर्याणीं तां च दत्त्वा धर्मस्तिरोदधे ॥ १३८ ॥ सहोदरैः सहोत्थाय धैर्मभूः स्वाश्रमं ययौ । ब्राह्मणायारणीं तस्मै तज्जीवितमिवार्पयत् ॥ १३९ ॥ पूर्णा द्वादशवत्सरीमथ परिज्ञाय क्षमानायकः
सानि धौम्यमुदीर्य पार्षतपुरीवासाय वर्षावधि | किं च द्वारवतीपुराभिगमने तानिन्द्रसेनादिका -
नवी शिक्षयति स्म कर्तुमुदितो गुप्तं विहारं क्वचित् ॥ १४० ॥ भेजे श्रीजिनदत्तसूरि सुगुरोरर्हन्मतार्हस्थितेः
पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती | तल्लीलागिरि बालभारतमहाकाव्ये तृतीयं मनो
निर्वेदव्ययमेदुरश्रि निरगात्पर्वेदमारण्यकम् ॥ १४१ ॥ सर्गैश्चतुर्भिरेतस्मिन्पर्वण्यारण्यकाह्वये ।
चतुःशतीसप्तषष्टिविशिष्टासीदनुष्टुभाम् ॥ १४२ ॥
इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्र विरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के आरण्यके पर्वणि धर्मादेशो नाम चतुर्थः सर्गः । इत्यारण्यकपर्व समाप्तम् ।
१. 'सहोद्यद्भिः ' ग. २. 'धर्मसूः' ग.
Aho ! Shrutgyanam