SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ३ वनपर्व - ३ सर्गः ] बालभारतम् । दातुमन्नपटलान्युदिताब्द कल्पना जलमपि त्रुटदेब्धेः । यज्जगत्यपि जवात्तदवाप शुभ्रतां शुचियशोभिरिवासौ ॥ ६४ ॥ संगतामपतिवद्धनकालः काननेषु शरदं परिरभ्य । तत्क्षणादपि पलायत शृण्वन्राजहंसजनितध्वनितानि ॥ ६१ ॥ चन्द्र चारुवदना धृतभास्वद्दर्पणा सुरधनुर्मुकुटाढ्या | हंसहाररुचिरा च तदीयक्काणनूपुरवा शरदागात् ॥ ६६ ॥ पुण्यवानहमनेन समन्तात्पायसीयसपदीति मुदाब्धिः । उद्गते घटभुवि स्फुटमन्दैः कर्षितोऽपि भृशमुच्छ्रसति स्म ॥ ६७ ॥ लोचनैरिव निमेषवियुक्तैरम्बुजै रसभृतो भृशमाप | एष्यताममृगयन्त विशुद्धा मार्गमेव विशदच्छदयूनाम् ॥ ६८ ॥ हन्त भास्करकराग्रगतानां प्रान्तरे चिरमपां विरेण । श्यामतां गतवतः कृशमूर्तेः कर्दमस्य हृदयेन विदीर्णम् ॥ ६९ ॥ जीवितैः किमु ततः समयोऽसौ साहसादिव देवेषु पतित्वा । बर्हिणां छदभरैः पदमापि च्छत्रतामुपगतैर्नृपमूर्ध्नि ॥ ७० ॥ प्रीतिनिश्चलमृगाः करलोलत्कङ्कणकणपलायितकीराः । गीतनृत्तविधिनैव वितेनुः पालनानि नवशालिषु गोप्यः ॥ ७१ ॥ स्फारितामृतकलामृत कुण्डेनाङ्किता गजवती जगतीयम् । माधुरीगुणधुरीणघृतेक्षुः कासि कासमहसा हसति स्म ॥ ७२ ॥ यद्वनीषु चलखञ्जननेत्रा सर्वतः शरदसौ विललास । तद्बभार भुवि तत्पदलेखाविभ्रमं स्थलरुहोत्पलवीथी ॥ ७३ ॥ षट्पदो मुहुरयुक्छदपुष्पं सेवते स्म गजदानसुगन्धि । शङ्कितश्रवणतालनिपातस्तद्वलादपि चलादतिबिभ्यत् ॥ ७४ ॥ बाणपत्रनयनेऽसनपुष्पस्वर्णधामनि मुखे शरदोऽस्याः । कुङ्कुमस्तबकमण्डललक्ष्मीं बन्धुजीवकुसुमानि सभीयुः ॥ ७५ ॥ षट्पदोsधरतैले दयितायाः संपतन्नवजयेति विलोलः । पञ्चभिश्चलकरैः कुरुवीरैः शक्यते स्म विनिवारयितुं न ॥ ७६ ॥ ५. २०३ १. 'दब्धिः ' क. २. 'विहरेषु' ख ग ३. 'स यः' ख-ग. ४. 'हृदेषु' ख ग. 'दले' ग. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy