SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ २सभापर्व-४सर्गः] बालभारतम् । खयंकृतस्य कौन्तेयैः पत्तनस्यास्य दूरगा। पूर्मे पैतामही काण्डकरपाटकवद्वभौ ॥ ४४ ॥ सहजद्विषतामेषामेषा लक्ष्मीः पुरस्य माम् । स्मर्यमाणा दुनोत्यन्तरयोगिनमिव प्रिया ॥ ४५ ॥ चतुर्भुजेन दिग्गैत्रैः सोदरैश्च वृतः कृतौ। श्रियं यामाश्रयद्धर्मसूनुः क्लिश्नाति साति माम् ॥ ४६ ॥ समस्तैर्वस्तुभिः स्वस्वदेश विश्वभूभुजः । दत्तैरानन्दयन्यज्ञबलये बलिनोऽपि तम् ॥ ४७ ॥ श्रीचन्दनरसं शातकुम्भकुम्भैरढौकयत् । यशः स्वमिव तेजःस्थं पाण्ड्यो मलयपार्थिवः ॥ ४८ ॥ जातं रावणगङ्गायां पद्मरागमणिव्रजम् । भक्त्या स्फुटीकृतं मूर्तमनुरागमिवात्मनः ॥ ४९ ॥ अब्धितीरोद्भवानिन्द्रनीलमौक्तिकसंचयान् । स्वराज्यश्रीशितिश्वेतकटाक्षस्तबकानिव ॥ ५० ॥ सिंहलेशो यशोवल्लीवृन्दकन्दानिवोज्ज्वलान् । अदत्त दक्षिणावर्तशङ्खानपि सहस्रशः ॥ ११ ॥ (विशेषकम्) अब्ध्यर्पिता नु पुष्पालीः सभृङ्गास्तज्जुषे श्रिये । मुक्ता मरकतैर्युक्ता ददौ बर्बरदेशपः ॥ १२ ॥ मल्लक्ष्मीस्तव मुण्डीति वैदन्नस्याः कचानिव । वैदूर्याणि पुरोऽमुश्चत्कौङ्गचौलिकदेशपः ॥ १३ ॥ शङ्खमत्स्यमुखोन्मुक्तमुक्तापङ्कीद्वयीः सिताः । प्रवालकन्दलश्रेणीनवीनरविपाटलाः ॥ १४ ॥ नदीपद्वीपभूमीपा ददुर्यास्ताभिराबभौ । ओष्ठपर्यस्तदन्तालिद्वयच्छायेव तत्सभा ॥ ५५ ॥ (युग्मम्) १. 'मेषां लक्ष्मी राजन् पुरस्य' क. २. 'द्भवानीलरलमौ' क. ३. 'वदस्तस्याः ' ग. ४. 'रुचि' ख. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy