________________
१ आदिपर्व - १२ सर्गः ]
बालभारतम् ।
परितप्तदीर्णचलित स्खलितप्रतिशस्त्रराशिभिरथोप्रतरैः । नरमार्गणैविधुरिता युधि ते ययुरिन्द्रमेव शरणं त्रिदशाः ॥ ७१ ॥ अथ विक्रमेण तनयस्य तदा मुदितो विशेष बलदर्शनधीः । बलसूदनः कृतककोपकणः क्षणमश्मवृष्टिमसृजन्नभसः ॥ ७२ ॥ शरजालकं किमपि संभ्रमतो विजयी ववर्ष तदमर्षनिधिः । अपिषत्पतत्र पवनेन शिलाः परमाणुवत्क्वचन चिक्षिपिरे ॥ ७३ ॥ अथ मेरुशृङ्गमुरु पार्थभिदे मुमुचे रुषेव नमुचेर्द्विषता । दिवि लोहगोलकमिव ज्वलितोज्ज्वलदन्तरं तरलितत्रिजगत् ॥ ७४ ॥ अथ पार्थबाणततिभिः पतिते दवसीम्नि तत्र शिखरे महति । अपि कल्पशाखिभिरपूरि नहि स्वमनः प्रकल्पितमिवै सनम् ॥ ७५ ॥ बलशत्रुरम्बरगिरानुभवैरपि दुर्जयौ नरहरी कलयन् । अथ मुक्तसंगररसप्रसरस्त्रिदशैः समं त्रिदिवसीम्नि ययौ ॥ ७६ ॥ निरपायमग्निरथ संज्वलितो नरविक्रमस्मरणकम्पिशिराः । मरुदध्वमूर्ध्नि विललास रणापसृतं विलोकयितुमिन्द्रमिव ॥ ७७ ॥ जितशत्रयोर्मुरजिदर्जुनयोर्ज्वलितः स कश्चन महोदहनः । यशसातयोर्विंशदितो हिमवानिव यत्पुरो दवशिखी स बभौ ॥ ७८ ॥ दृढदावपावकभवानि बभुर्मलिनानि धूमवलयान्यभितः । दिवि मूर्तिमन्ति समिति त्रसतो नवदुर्यशांसि सुरभर्तुरिव ॥ ७९ ॥ यदुपार्जि जम्भमुखदैत्यजयाद्दिवि वासवेन हिमहारि यशः । इषुभिर्नरेण दलितस्य कणैरिव तस्य तारकगणैः शुशुभे ॥ ८० ॥ मदसिंहनादमथ तौ दधतुर्नरकेशवौ जयरसेन तथा । अनुसंगतौ किमु रणाय भटाविति शङ्कितं दिवि यथा विबुधैः ॥ ८१ ॥ वनजीवनिर्गमनिषेधकृते स्थितयोस्तयोरथ रथस्थितयोः । दिवि मूर्तिमान्हुतवहो जटिलः प्रमदी जगर्ज च वैशाश्च पपौ ॥ ८२ ॥ १. 'अति' क. २. 'वनजीवि - क. ३. 'वसाश्च' इति पाठः साधीयानू. वसा वपा.
Aho ! Shrutgyanam
१२७