SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११० काव्यमाला । समजनि दयितानां बाढमुत्साहहेतोः सरभसरतलीला निर्दयानां तदेव ॥ ७७ ॥ क्षणमुपचितचञ्चच्चाटुमन्त्रोक्तिभाजो रभसभरनिरुद्धश्वासयोराशु यूनोः । मनसि रतमनन्यध्यायिनि ध्यायमानं समजनि सममेव स्निग्धयोः सुप्रसन्नम् ॥ ७८ ॥ यूनाममन्दपरिरम्भभरै रतान्ते कामोऽपि मूर्छित इव क्षणमेकमस्थात् । उज्जीवितः पुनरपि क्रमजायमान मन्दातिशीत सुरभिश्वसितानिलेन ॥ ७९ ॥ आलिङ्गनाद्विघटनैकमना रतान्ते नामुच्यत प्रमदया हृदयाधिनाथः । तस्या मुखं च सविशेषरसानुभावं पश्यन्नवापस पुनर्नवतामतीव ॥ ८० ॥ हृष्टस्मराणि भृशमुत्सुकतागृहीतवासोविपर्ययविलोकमृदुस्मितानि । व्रीडाविकुञ्चितविलोलविलोचनानि यूनां रतान्तललितानि महोत्सवोऽभूत् ॥ ८१ ॥ सुभ्रुवामवयवेषु नखाङ्का भूषणं विरहिताभरणेषु । तद्वपुर्विरहितेषु तदर्था ग्लानिराभरणमाभरणेषु ॥ ८२ ॥ वीक्ष्य तादृशरसद्विगुणश्रीभासुराणि वदनानि युवानः । निन्यिरे मुहुरपि स्मरलोलालीलयैव दयिताः शयनीयम् ॥ ८३ ॥ उद्यत्तन्द्र इवोपभुक्तरजनीखेदेन चन्द्रोऽप्ययं डिण्डीरप्रतिवीरमूर्तिरुचितः स्रस्यत्कराडम्बरः । अस्तक्ष्माधरमस्तकस्थितिमतिर्मन्ये चचार स्फुर त्पारावारतरङ्गरङ्गितमरुत्पूराय दूरादपि ॥ ८४ ॥ इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के आदिपर्वणि सुरापानसुरतवर्णनो नाम दशमः सर्गः ॥ Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy